विचारयध्वं मिलिता हितं स्यान्मम वै कथम् । मन्त्रिण ऊचुः - किं ब्रूमोऽस्मिन्महाराज सङ्कटेऽतिदुरासदे
दुर्भगाय सुकन्यैषा कथं देयातिसुन्दरी । व्यास उवाच - तदा चिन्ताकुलं वीक्ष्य पितरं मन्त्रिणस्तदा
सुकन्या त्विङ्गितं ज्ञात्वा प्रहस्येदमुवाच ह । पितः कस्माद्भवानद्य चिन्ताव्याकुलितेन्द्रियः
मत्कृते दुःखसंविग्नो विषण्णवदनोऽसि वै । अहं गत्वा मुनिं तत्र समाश्वास्य भयार्दितम्
करिष्यामि प्रसन्नं तं आत्मदानेन वै पितः । इति राजा वचः श्रुत्वा भाषितं यत्सुकन्यया
तामुवाच प्रसन्नात्मा सचिवानां च शृण्वताम् । कथं पुत्रि त्वमन्धस्य परिचर्यां वनेऽबला
करिष्यसि जरार्तस्य क्रोधनस्य विशेषतः । कथमन्धाय चानेन रूपेण रतिसन्निभाम्
ददामि जरया ग्रस्तदेहाय सुखवाञ्छया । पित्रा पुत्री प्रदातव्या वयोज्ञातिबलाय च
धनधान्यसमृद्धाय नाधनाय कदाचन । क्व ते रूपं विशालाक्षि क्वासौ वृद्धो वनेचरः
कथं देया मया पुत्री तस्मै नातिवराय च । उटजे नियतं वासो यस्य नित्यं मनोहरे
कथमम्बुजपत्राक्षि कल्पनीयो मया तव । मरणं मे वरं प्राप्तं सैनिकानां तथैव च
न ते प्रदानमन्धाय रोचते पिकभाषिणि । भवितव्यं भवत्येव धैर्यं नैव त्यजाम्यहम्
सुस्थिरा भव सुश्रोणि न दास्येऽन्धाय कर्हिचित् । राज्यं तिष्ठतु वा यातु देहोऽयं च तथैव मे
न त्वां दास्याम्यहं तस्मै नेत्रहीनाय बालिके । सुकन्या तं तदा प्राह श्रुत्व तद्वचनं पितुः
प्रसन्नवदनातीव स्नेहयुक्तमिदं वचः । सुकन्योवाच - न मे चिन्ता पितः कार्या देहि मां मुनयेऽधुना
सुखं भवतु सर्वेषां लोकानां मत्कृतेन हि । सेवयिष्यामि सन्तुष्टा पतिं परमपावनम्
भक्त्या परमया चापि वृद्धं च विजने वने । सतीधर्मपरा चाहं चरिष्यामि सुसम्मतम्
न भोगेच्छास्ति मे तात स्वस्थं चित्तं ममानघ । व्यास उवाच - तच्छ्रुत्वा भाषितं तस्या मन्त्रिणो विस्मयं गताः
राजा च परमप्रीतो जगाम मुनिसन्निधौ । गत्वा प्रणम्य शिरसा तमुवाच तपोधनम्
स्वामिन् गृहाण पुत्रीं मे सेवार्थं विधिवद्विभो । इत्युक्त्वासौ ददौ पुत्रीं विवाहविधिना नृपः
प्रतिगृह्य मुनिः कन्यां प्रसन्नो भार्गवोऽभवत् । पारिबर्हं न जग्राह दीयमानं नृपेण ह
कन्यामेवाग्रहीत्कामं परिचर्यार्थमात्मनः । प्रसन्नेऽस्मिन्मुनौ जातं सैनिकानां सुखं तदा
राज्ञश्च परमाह्लादः सञ्जातस्तत्क्षणादपि । दत्त्वा पुत्रीं यदा राजा गमनाय गृहं प्रति
मतिं चकार तवङ्गी तदोवाच नृपं सुता । सुकन्योवाच - गृहाण मम वासांसि भूषणानि च मे पितः
वल्कलं परिधानाय प्रयच्छाजिनमुत्तमम् । वेषं तु मुनिपत्नीनां कृत्वा तपसि सेवनम्
करिष्यामि तथा तात यथा ते कीर्तिरच्युता । भविष्यति भुवः पृष्ठे तथा स्वर्गे रसातले
परलोकसुखायाहं चरिष्यामि दिवानिशम् । दत्त्वान्धाय च वृद्धाय सुन्दरीं युवतीं तु माम्
चिन्ता त्वया न कर्तव्या शीलनाशसमुद्भवा । अरुन्धती वसिष्ठस्य धर्मपत्नी यथा भुवि
तथैवाहं भविष्यामि नात्र कार्या विचारणा । अनसूया यथा साध्वी भार्यात्रेः प्रथिता भुवि
तथैवाहं भविष्यामि पुत्री कीर्तिकरी तव । सुकन्यावचनं श्रुत्वा राजा परमधर्मवित्