व्यास उवाच - इति श्रुत्वा वचस्तस्य च्यवनो वाक्यमब्रवीत् । विनयोपनतं दृष्ट्वा राजानं दुःखितं भृशम्
च्यवन उवाच - राजन्नाहं कदाचिद्वै करोमि क्रोधमण्वपि । न मयाद्यैव शप्तस्त्वं दुहित्रा पीडने कृते
नेत्रे पीडा समुत्पन्ना मम चाद्य निरागसः । तेन पापेन जानामि दुःखितस्त्वं महीपते
अपराधं परं कृत्वा देवीभक्तस्य को जनः । सुखं लभेत यदपि भवेत् त्राता शिवः स्वयम्
किं करोमि महीपाल नेत्रहीनो जरावृतः । अन्धस्य परिचर्यां च कः करिष्यति पार्थिव
राजोवाच - सेवका बहवः सेवां करिष्यन्ति तवानिशम् । क्षमस्व मुनिशार्दूल स्वल्पक्रोधा हि तापसाः
च्यवन उवाच - अन्धोऽहं निर्जनो राजंस्तपस्तप्तुं कथं क्षमः । त्वदीयाः सेवकाः किं ते करिष्यन्ति मम प्रियम्
क्षमापयसि चेन्मां त्वं कुरु मे वचनं नृप । देहि मे परिचर्यार्थं कन्यां कमललोचनाम्
तुष्येऽनया महाराज पुत्र्या तव महामते । करिष्यामि तपश्चाहं सा मे सेवां करिष्यति
एवं कृते सुखं मे स्यात्तव चैव भविष्यति । सन्तुष्टे मयि राजेन्द्र सैनिकानां न संशयः
विचिन्त्य मनसा भूप कन्यादानं समाचर । न चात्र दूषणं किञ्चित्तापसोऽहं यतव्रतः
व्यास उवाच - शर्यातिर्वचनं श्रुत्वा मुनेश्चिन्तातुरोऽभवत् । न दास्येऽप्यथवा दास्ये किञ्चिन्नोवाच भारत
कथमन्धाय वृद्धाय कुरूपाय सुतामिमाम् । देवकन्योपमां दत्त्वा सुखी स्यामात्मसम्भवाम्
को वात्मनः सुखार्थाय पुत्र्याः संसारजं सुखम् । हरतेऽल्पमतिः पापो जानन्नपि शुभाशुभम्
प्राप्य सा च्यवनं सुभ्रूः पञ्चबाणशरार्दिता । अन्धं वृद्धं पतिं प्राप्य कथं कालं नयिष्यति
यौवने दुर्जयः कामो विशेषेण सुरूपया । आत्मतुल्यं पतिं प्राप्य किमु वृद्धं विलोचनम्
गौतमं तापसं प्राप्य रूपयौवनसंयुता । अहल्या वासवेनाशु वञ्चिता वरवर्णिनी
शप्ता च पतिना पश्चाज्ज्ञात्वा धर्मविपर्ययम् । तस्माद्भवतु मे दुःखं न ददामि सुकन्यकाम्
इति सञ्चिन्त्य शर्यातिर्विमना स्वगृहं ययौ । सचिवांश्च समादाय मन्त्रं चक्रेऽतिदुःखितः
भो मन्त्रिणो ब्रुवन्त्वद्य किं कर्तव्यं मयाधुना । पुत्री देयाथ विप्राय भोक्तव्यं दुःखमेव वा
विचारयध्वं मिलिता हितं स्यान्मम वै कथम् । मन्त्रिण ऊचुः - किं ब्रूमोऽस्मिन्महाराज सङ्कटेऽतिदुरासदे
दुर्भगाय सुकन्यैषा कथं देयातिसुन्दरी । व्यास उवाच - तदा चिन्ताकुलं वीक्ष्य पितरं मन्त्रिणस्तदा
सुकन्या त्विङ्गितं ज्ञात्वा प्रहस्येदमुवाच ह । पितः कस्माद्भवानद्य चिन्ताव्याकुलितेन्द्रियः
मत्कृते दुःखसंविग्नो विषण्णवदनोऽसि वै । अहं गत्वा मुनिं तत्र समाश्वास्य भयार्दितम्
करिष्यामि प्रसन्नं तं आत्मदानेन वै पितः । इति राजा वचः श्रुत्वा भाषितं यत्सुकन्यया
तामुवाच प्रसन्नात्मा सचिवानां च शृण्वताम् । कथं पुत्रि त्वमन्धस्य परिचर्यां वनेऽबला
करिष्यसि जरार्तस्य क्रोधनस्य विशेषतः । कथमन्धाय चानेन रूपेण रतिसन्निभाम्
ददामि जरया ग्रस्तदेहाय सुखवाञ्छया । पित्रा पुत्री प्रदातव्या वयोज्ञातिबलाय च
धनधान्यसमृद्धाय नाधनाय कदाचन । क्व ते रूपं विशालाक्षि क्वासौ वृद्धो वनेचरः
कथं देया मया पुत्री तस्मै नातिवराय च । उटजे नियतं वासो यस्य नित्यं मनोहरे