सुकन्या वनमासाद्य विजहार सखीवृता । सुमनांसि विचिन्वन्ती चञ्चला चञ्चलोपमा
सर्वाभरणसंयुक्ता रणच्चरणनूपुरा । चंक्रममाणा वल्मीकं च्यवनस्य समासदत्
क्रीडासक्तोपविष्टा सा वल्मीकस्य समीपतः । ददर्श चास्य रन्ध्रे वै खद्योत इव ज्योतिषी
किमेतदिति सञ्चिन्त्य समुद्धर्तुं मनो दधे । गृहीत्वा कण्टकं तीक्ष्णं त्वरमाणा कृशोदरी
सा दृष्टा मुनिना बाला समीपस्था कृतोद्यमा । विचरन्ती सुकेशान्ता मन्मथस्येव कामिनी
तां वीक्ष्य सुदतीं तत्र क्षामकण्ठस्तपोनिधिः । तामभाषत कल्याणीं किमेतदिति भार्गवः
दूरं गच्छ विशालाक्षि तापसोऽहं वरानने । मा भिन्दस्वाद्य वल्मीकं कण्टकेन कृशोदरि
तेनेदं प्रोच्यमानापि सा चास्य न शृणोति वै । किमु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने
दैवेन नोदिता भित्त्वा जगाम नृपकन्यका । क्रीडन्ती शङ्कमाना सा किं कृतं तु मयेति च
चुक्रोध स तथा विद्धनेत्रः परममन्युमान् । वेदनाभ्यर्दितः कामं परितापं जगाम ह
शकृन्मूत्रनिरोधोऽभूत्सैनिकानां तु तत्क्षणात् । विशेषेण तु भूपस्य सामात्यस्य समन्ततः
गजोष्ट्रतुरगाणां च सर्वेषां प्राणिनां तदा । ततो रुद्धे शकृन्मूत्रे शर्यातिर्दुःखितोऽभवत्
सैनिकैः कथितं तस्मै शकृन्मूत्रनिरोधनम् । चिन्तयामास भूपालः कारणं दुःखसम्भवे
विचिन्त्याह ततो राजा सैनिकान्स्वजनांस्तथा । गृहमागत्य चिन्तार्तः केनेदं दुष्कृतं कृतम्
सरसः पश्चिमे भागे वनमध्ये महातपाः । च्यवनस्तापसस्तत्र तपश्चरति दुश्चरम्
केनाप्यपकृतं तत्र तापसेऽग्निसमप्रभे । तस्मात्पीडा समुत्पन्ना सर्वेषामिति निश्चयः
तपोवृद्धस्य वृद्धस्य वरिष्ठस्य विशेषतः । केनाप्यपकृतं मन्ये भार्गवस्य महात्मनः
ज्ञातं वा यदि वाज्ञातं तस्येदं फलमुत्तमम् । कैश्च दुष्टैः कृतं तस्य हेलनं तापसस्य ह
इति पृष्टास्तमूचुस्ते सैनिका वेदनार्दिताः । मनोवाक्कायनितं न विद्मोऽपकृतं वयम्
च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् व्यास उवाच - इति पप्रच्छ तान्सर्वान् राजा चिन्ताकुलस्तथा । पर्यपृच्छत्सुहृद्वर्गं साम्ना चोग्रतयापि च
पीड्यमानं जनं वीक्ष्य पितरं दुःखितं तथा । विचिन्त्य शूलभेदं सा सुकन्या चेदमब्रवीत्
वने मया पितस्तत्र वल्मीको वीरुधावृतः । क्रीडन्त्या सुदृढो दृष्टश्छिद्रद्वयसमन्वितः
तत्र खद्योतवद्दीप्तज्योतीषी वीक्षिते मया । सूच्याविद्धे महाराज पुनः खद्योतशङ्कया
जलक्लिन्ना तदा सूची मया दृष्टा पितः किल । हाहेति च श्रुतः शब्दो मन्दो वल्मीकमध्यतः
तदाहं विस्मिता राजन्किमेतदिति शङ्कया । न जाने किं मया विद्धं तस्मिन्वल्मीकमण्डले
राजा श्रुत्वा तु शर्यातिः सुकन्यावचनं मृदु । मुनेस्तद्धेलनं ज्ञात्वा वल्मीकं क्षिप्रमभ्यगात्
तत्रापश्यत्तपोवृद्धं च्यवनं दुःखितं भृशम् । स्फोटयामास वल्मीकं मुनिदेहावृतं भृशम्
प्रणम्य दण्डवद्भूमौ राजा तं भार्गवं प्रति । तुष्टाव विनयोपेतस्तमुवाच कृताञ्जलिः
पुत्र्या मम महाभाग क्रीडन्त्या दुष्कृतं कृतम् । अज्ञानाद्बालया ब्रह्मन् कृतं तत्क्षन्तुमर्हसि
अक्रोधना हि मुनयो भवन्तीति मया श्रुतम् । तस्मात्त्वमपि बालायाः क्षन्तुमर्हसि साम्प्रतम्