वटाश्वत्थकदम्बैश्च कदलीखण्डराजितम् । जम्बीरैर्बीजपूरैश्च खर्जूरैः पनसैस्तथा
क्रमुकैर्नारिकेलैश्च केतकैः काञ्चनद्रुमैः । यूथिकाजालकैः शुभ्रैः संवृतं मल्लिकागणैः
जम्ब्वाम्रतिन्तिणीभिश्च करञ्जकुटजावृतम् । पलाशनिम्बखदिरबिल्वामलकमण्डितम्
बभूव कोकिलारावः केकास्वनविराजितम् । तत्समीपे शुभे देशे पादपानां गणावृते
भार्गवश्च्यवनः शान्तस्तापसः संस्थितो मुनिः । ज्ञात्वासौ विजनं स्थानं तपस्तेपे समाहितः
कृत्वा दृढासनं मौनमाधाय जितमारुतः । इन्द्रियाणि च संयम्य त्यक्ताहारस्तपोनिधिः
जलपानादिरहितो ध्यायन्नास्ते पराम्बिकाम् । सवल्मीकोऽभवद्राजल्लँताभिः परिवेष्टितः
कालेन महता राजन् समाकीर्णः पिपीलिकैः । तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वतः
कदाचित्स महीपालः कामिनीगणसंवृतः । आजगाम सरो राजन् विहर्तुमिदमुत्तमम्
शर्यातिः सुन्दरीवृन्दसंयुतः सलिलेऽमले । क्रीडासक्तो महीपालो बभूव कमलाकरे
सुकन्या वनमासाद्य विजहार सखीवृता । सुमनांसि विचिन्वन्ती चञ्चला चञ्चलोपमा
सर्वाभरणसंयुक्ता रणच्चरणनूपुरा । चंक्रममाणा वल्मीकं च्यवनस्य समासदत्
क्रीडासक्तोपविष्टा सा वल्मीकस्य समीपतः । ददर्श चास्य रन्ध्रे वै खद्योत इव ज्योतिषी
किमेतदिति सञ्चिन्त्य समुद्धर्तुं मनो दधे । गृहीत्वा कण्टकं तीक्ष्णं त्वरमाणा कृशोदरी
सा दृष्टा मुनिना बाला समीपस्था कृतोद्यमा । विचरन्ती सुकेशान्ता मन्मथस्येव कामिनी
तां वीक्ष्य सुदतीं तत्र क्षामकण्ठस्तपोनिधिः । तामभाषत कल्याणीं किमेतदिति भार्गवः
दूरं गच्छ विशालाक्षि तापसोऽहं वरानने । मा भिन्दस्वाद्य वल्मीकं कण्टकेन कृशोदरि
तेनेदं प्रोच्यमानापि सा चास्य न शृणोति वै । किमु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने
दैवेन नोदिता भित्त्वा जगाम नृपकन्यका । क्रीडन्ती शङ्कमाना सा किं कृतं तु मयेति च
चुक्रोध स तथा विद्धनेत्रः परममन्युमान् । वेदनाभ्यर्दितः कामं परितापं जगाम ह
शकृन्मूत्रनिरोधोऽभूत्सैनिकानां तु तत्क्षणात् । विशेषेण तु भूपस्य सामात्यस्य समन्ततः
गजोष्ट्रतुरगाणां च सर्वेषां प्राणिनां तदा । ततो रुद्धे शकृन्मूत्रे शर्यातिर्दुःखितोऽभवत्
सैनिकैः कथितं तस्मै शकृन्मूत्रनिरोधनम् । चिन्तयामास भूपालः कारणं दुःखसम्भवे
विचिन्त्याह ततो राजा सैनिकान्स्वजनांस्तथा । गृहमागत्य चिन्तार्तः केनेदं दुष्कृतं कृतम्
सरसः पश्चिमे भागे वनमध्ये महातपाः । च्यवनस्तापसस्तत्र तपश्चरति दुश्चरम्
केनाप्यपकृतं तत्र तापसेऽग्निसमप्रभे । तस्मात्पीडा समुत्पन्ना सर्वेषामिति निश्चयः
तपोवृद्धस्य वृद्धस्य वरिष्ठस्य विशेषतः । केनाप्यपकृतं मन्ये भार्गवस्य महात्मनः
ज्ञातं वा यदि वाज्ञातं तस्येदं फलमुत्तमम् । कैश्च दुष्टैः कृतं तस्य हेलनं तापसस्य ह
इति पृष्टास्तमूचुस्ते सैनिका वेदनार्दिताः । मनोवाक्कायनितं न विद्मोऽपकृतं वयम्
च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् व्यास उवाच - इति पप्रच्छ तान्सर्वान् राजा चिन्ताकुलस्तथा । पर्यपृच्छत्सुहृद्वर्गं साम्ना चोग्रतयापि च