तावत्क्लेशावहं नॄणामुपसर्गमहातमः । यावन्नैवोदयं प्राप्तो देवीभागवतोष्णगुः
ऋषय ऊचुः। सूत सूत महाभाग वद नो वदतांवर । कीदृशं तत्पुरायणं हि विधिस्तच्छ्रवणे च कः
कतिभिर्वासरैरेतच्छ्रोतव्यं किं च पूजनम् । कैर्मानवैः श्रुतं पूर्वं कान्कान्कामानवाप्नुयुः
सूत उवाच। विष्णोरंशो मुनिर्जातः सत्यवत्यां पराशरात् । विभज्य वेदांश्चतुरः शिष्यानध्यापयत्पुरा
व्रात्यानां द्विजबन्धूनां वेदेष्वनधिकारिणाम् । स्त्रीणां दुर्मेधसां नॄणां धर्मज्ञानं कथं भवेत्
विचार्यैतत्तु मनसा भगवान्बादरायणः । पुराणं संहितां दध्यौ तेषां धर्मविधित्सया
अष्टादश पुराणानि स कृत्वा भगवान्मुनिः । मामेवाध्यापयामास भारताख्यानमेव च
देवीभागवतं तत्र पुराणं भोगमोक्षदम् । स्वयं तु श्रावयामास जनमेजयभूपतिम्
पूर्वं यस्य पिता राजा परीक्षित्तक्षकाहिना । संदष्टस्तस्य संशुद्ध्यै राज्ञा भागवतं श्रुतम्
नवभिर्दिवसै: श्रीमद्वेदव्यासमुखाम्बुजात् । त्रैलोक्यमातरं देवीं पूजयित्वा विधानतः
नवाह यज्ञे सम्पूर्णे परीक्षिदपि भूपतिः । दिव्यरूपधरो देव्याः सालोक्यं तत्क्षणादगात्
पितुर्दिव्यां गति राजा विलोक्य जनमेजयः । व्यासं मुनिं समभ्यर्च्य परां मुदमवाप ह
अष्टादशपुराणानां मध्ये सर्वोत्तमं परम् । देवीभागवतं नाम धर्मकामार्थमोक्षदम्
ये शृण्वन्ति सदा भक्त्या देव्या भागवतीं कथाम् । तेषां सिद्धिर्न दूरस्था तस्मात्सेव्या सदा नृभिः
दिनमर्द्धं तदर्धं वा मुहूर्तं क्षणमेव वा । ये शृण्वन्ति नरा भक्त्या न तेषां दुर्गतिः क्वचित् ॥ सर्वयज्ञेषु तीर्थेषु सर्वदानेषु यत्फलम् । सकृत्पुराणश्रवणात्तत्फलं लभते नरः
कृता दो बहवो धर्माः कलौ धर्मस्तु केवलम् । पुराणश्रवणादन्यो विद्यते नापरो नृणाम्
धर्माचारविहीनानां कलावल्पायुषां नृणाम् । व्यासो हिताय विदधे पुराणाख्यं सुधारसम्
सुधां पिबन्नेक एव नरः स्यादजरामरः । देव्याः कथामृतं कुर्यात्कुलमेवाजरामरम्
मासानां नियमो नात्र दिनानां नियमोऽपि न । सदा सेव्यं सदा सेव्यं देवीभागवतं नरैः
आश्विने मधुमासे वा तपोमासे शुचौ तथा । चतुर्षु नवरात्रेषु विशेषात्फलदायकम्
अतो नवाहयज्ञोऽयं सर्वस्मात्पुण्यकर्मणः । फलाधिकप्रदानेन प्रोक्तः पुण्यप्रदो नृणाम्
ये दुर्हृदः पापरता विमूढा मित्रद्रुहो वेदविनिंदकाश्च । हिंसारता नास्तिकमार्गसक्ता नवाहयज्ञेन पुनंति ते कलौ
परस्वदाराहणेतिऽलुब्धा ये वै नराः कल्मषभारभाजः । गोदेवता ब्राह्मणभक्तिहीना नवाहज्ञेन भवन्ति शुद्धाः
तपोभिरुग्रैर्व्रततीर्थसेवनैर्दानैरनेकैर्नियमैर्मखैश्च । हुतैर्जपैर्यच्च फलेन लभ्यते नवाहयज्ञेन तदाप्यते नृणाम्
तथा न गङ्गा न गया न काशी न नैमिषं नो मथुरा न पुष्करम् । पुनाति सद्यो बदरीवनं नो यथा हि देवीमख एष विप्राः
अतो भागवतं देव्याः पुराणं परतः परम् । धर्मार्थकाममोक्षाणामुत्तमं साधनं मतम्
आश्विनस्य सिते पक्षे कन्याराशिगते रवौ । महाष्टम्यां समभ्यर्च्य हैकसिंहासनस्थितम्
देवीप्रीतिपदं भक्त्या श्रीभागवतपुस्तकम् । दद्याद्विप्राय योग्याय स देव्याः पदवीं लभेत्
देवी भागवतस्यापि श्लोकं श्लोकार्द्धमेव वा । भक्त्या यश्च पठेन्नित्यं स देव्याः प्रीतिभाग्भवेत् ॥ उपसर्गभवं घोरं महामारीसमुद्भवम् । उत्पातानखिलांश्चापि हंति श्रवणमात्रतः
बालग्रहकृतं यच्च भूतप्रेतकृतं भयम् । देवीभागवतस्यास्य श्रवणाद्याति दूरतः