श्रीदुर्गादेव्यै नमः श्रीमद्देवीभागवतमाहात्म्यम् सृष्टी या सर्गरूपा जगदवनविधौ पालिनी या च रौद्री संहारे चापि यस्या जगदिदमखिलं क्रीडनं याऽपराख्या । पश्यन्ती मध्यमाऽथो तदनु भगवती वैखरीवर्णरूपा साऽस्मद्वाचं प्रसन्ना विधिहरिगिरिशाराधिताऽलङ्करोतु
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
ऋषय ऊचुः। सूत जीव समा बह्वीर्यस्त्वं श्रावयसीह नः । कथा मनोहराः पुण्या व्यासशिष्य महामते
सर्वपापहरं पुण्यं विष्णोश्चरितमद्भुतम् । अवतार कथोपेतमस्माभिर्भक्तितः श्रुतम्
शिवस्य चरितं दिव्यं भस्मरुद्राक्षयोस्तथा । सेतिहासं च माहात्म्यं श्रुतं तव मुखाम्बुजात्
अधुना श्रोतुमिच्छामः पावनात्पावनं परम् । भुक्तिमुक्तिप्रदं नॄणामनायासेन सर्वशः
तत्त्वं ब्रूहि महाभाग येन सिद्ध्यन्ति मानवाः । कलावपि वरं त्वत्तो न विद्यः संशयच्छिदम्
सूत उवाच। साधु पृष्टं महाभागा लोकानां हितकाम्यया । सर्वशास्त्रस्य यत्सारं तो वक्ष्याम्यशेषतः
तावद्गर्जन्ति तीर्थानि पुराणानि व्रतानि च । यावन्न श्रूयते सम्यग्देवीभागवतं नरैः
तावत्पापाटवी नॄणां क्लेशदाऽदभ्रकण्टका । यावन्न परशुः प्राप्तो देवीभागवताभिधः
तावत्क्लेशावहं नॄणामुपसर्गमहातमः । यावन्नैवोदयं प्राप्तो देवीभागवतोष्णगुः
ऋषय ऊचुः। सूत सूत महाभाग वद नो वदतांवर । कीदृशं तत्पुरायणं हि विधिस्तच्छ्रवणे च कः
कतिभिर्वासरैरेतच्छ्रोतव्यं किं च पूजनम् । कैर्मानवैः श्रुतं पूर्वं कान्कान्कामानवाप्नुयुः
सूत उवाच। विष्णोरंशो मुनिर्जातः सत्यवत्यां पराशरात् । विभज्य वेदांश्चतुरः शिष्यानध्यापयत्पुरा
व्रात्यानां द्विजबन्धूनां वेदेष्वनधिकारिणाम् । स्त्रीणां दुर्मेधसां नॄणां धर्मज्ञानं कथं भवेत्
विचार्यैतत्तु मनसा भगवान्बादरायणः । पुराणं संहितां दध्यौ तेषां धर्मविधित्सया
अष्टादश पुराणानि स कृत्वा भगवान्मुनिः । मामेवाध्यापयामास भारताख्यानमेव च
देवीभागवतं तत्र पुराणं भोगमोक्षदम् । स्वयं तु श्रावयामास जनमेजयभूपतिम्
पूर्वं यस्य पिता राजा परीक्षित्तक्षकाहिना । संदष्टस्तस्य संशुद्ध्यै राज्ञा भागवतं श्रुतम्
नवभिर्दिवसै: श्रीमद्वेदव्यासमुखाम्बुजात् । त्रैलोक्यमातरं देवीं पूजयित्वा विधानतः
नवाह यज्ञे सम्पूर्णे परीक्षिदपि भूपतिः । दिव्यरूपधरो देव्याः सालोक्यं तत्क्षणादगात्
पितुर्दिव्यां गति राजा विलोक्य जनमेजयः । व्यासं मुनिं समभ्यर्च्य परां मुदमवाप ह
अष्टादशपुराणानां मध्ये सर्वोत्तमं परम् । देवीभागवतं नाम धर्मकामार्थमोक्षदम्
ये शृण्वन्ति सदा भक्त्या देव्या भागवतीं कथाम् । तेषां सिद्धिर्न दूरस्था तस्मात्सेव्या सदा नृभिः
दिनमर्द्धं तदर्धं वा मुहूर्तं क्षणमेव वा । ये शृण्वन्ति नरा भक्त्या न तेषां दुर्गतिः क्वचित् ॥ सर्वयज्ञेषु तीर्थेषु सर्वदानेषु यत्फलम् । सकृत्पुराणश्रवणात्तत्फलं लभते नरः
कृता दो बहवो धर्माः कलौ धर्मस्तु केवलम् । पुराणश्रवणादन्यो विद्यते नापरो नृणाम्
धर्माचारविहीनानां कलावल्पायुषां नृणाम् । व्यासो हिताय विदधे पुराणाख्यं सुधारसम्
सुधां पिबन्नेक एव नरः स्यादजरामरः । देव्याः कथामृतं कुर्यात्कुलमेवाजरामरम्
मासानां नियमो नात्र दिनानां नियमोऽपि न । सदा सेव्यं सदा सेव्यं देवीभागवतं नरैः
आश्विने मधुमासे वा तपोमासे शुचौ तथा । चतुर्षु नवरात्रेषु विशेषात्फलदायकम्