श्रीमांश्च पुत्रवान्विद्वाञ्ज्ञानवान्सर्वतः सुखी । भोजयेद्योऽपि मिष्टान्नं ब्राह्मणेभ्यश्च भारते
He is prosperous, has sons, is learned, wise, and happy in every way. Whoever also feeds sweet food to Brahmins in Bharata—
विप्रलोमप्रमाणाब्दं मोदते विष्णुमन्दिरे । ततः पुनरिहागत्य सुखी च धनवान्भवेत्
For as many years as the hairs on the Brahmins, he delights in Vishnu's temple. Then, returning again here, he becomes happy and wealthy.
विद्वान्सुचिरजीवी च श्रीमानतुलविक्रमः । यो वक्ति वा ददात्येव हरेर्नामानि भारते
He is learned, long-lived, prosperous, and possesses incomparable valor. Whoever recites or gives the names of Hari in Bharata—
युगं नाम प्रमाणं च विष्णुलोके महीयते । ततः पुनरिहागत्य स सुखी धनवान्भवेत्
For the measure of a yuga, he is honored in Vishnu's world. Then, returning again here, he becomes happy and wealthy.
यदि नारायणक्षेत्रे फलं कोटिगुणं भवेत् । नाम्ना कोटिं हरेर्यो हि क्षेत्रे नारायणे जपेत्
If in the Nārāyaṇa field, the fruit is a crore-fold. Whoever recites a crore of Hari's names in the Nārāyaṇa field—
सर्वपापविनिर्मुक्तो जीवन्मुक्तो भवेद्ध्रुवम् । न लभेत्स पुनर्जन्म वैकुण्ठे स महीयते
He becomes completely free from all sins, certainly liberated while living. He does not attain rebirth; he is honored in Vaikuṇṭha.
लभेद्विष्णोश्च सारूप्यं न तस्य पतनं भवेत् । विष्णुभक्तिं लभेत्सोऽपि विष्णुसारूप्यमाप्नुयात्
One attains resemblance to Viṣṇu and does not fall from that state; he gains devotion to Viṣṇu and thus attains likeness to Viṣṇu.
शिवं यः पूजयेन्नित्यं कृत्वा लिङ्गं च पार्थिवम् । यावज्जीवनपर्यन्तं स याति शिवमन्दिरम्
Whoever worships Śiva daily, having made a liṅga of earth, for as long as he lives, goes to the abode of Śiva.
मृदो रेणुप्रमाणाब्दं शिवलोके महीयते । ततः पुनरिहागत्य राजेन्द्रो भारते भवेत्
For as many years as there are dust particles of clay, he is honored in the realm of Śiva; then, returning here, he becomes a king in Bhārata.
शिलां च पूजयेन्नित्यं शिलातोयं च भक्षति । महीयते च वैकुण्ठे यावद्वै ब्रह्मणः शतम्
Whoever worships a stone daily and partakes of water from the stone is honored in Vaikuṇṭha for a hundred years of Brahmā.
ततो लब्ध्वा पुनर्जन्म हरिभक्तिं च दुर्लभाम् । महीयते विष्णुलोके न तस्य पतनं भवेत्
Then, having obtained rebirth, he gains the rare devotion to Hari and is honored in Viṣṇu’s realm, never falling from that state.
तपांसि चैव सर्वाणि व्रतानि निखिलानि च । कृत्वा तिष्ठति वैकुण्ठे यावदिन्द्राश्चतुर्दश
Having performed all austerities and every vow, he dwells in Vaikuṇṭha for as long as fourteen Indras reign.
ततो लब्ध्वा पुनर्जन्म राजेन्द्रो भारते भवेत् । ततो मुक्तो भवेत्पश्चात्पुनर्जन्म न विद्यते
Then, having obtained rebirth, he becomes a king in Bhārata; afterwards, he is liberated and no further rebirth occurs.
यः स्नात्वा सर्वतीर्थेषु भुवः कृत्वा प्रदक्षिणाम् । स तु निर्वाणतां याति न च जन्म भवेद्भुवि
Whoever, having bathed in all the sacred waters, circumambulates the earth, attains liberation and is not born again on earth.
पुण्यक्षेत्रे भारते च योऽश्वमेधं करोति च । अश्वलोममिताब्दं च शक्रस्यार्धासनं भजेत्
Whoever performs an Aśvamedha sacrifice in a holy place in Bhārata enjoys half the throne of Indra for as many years as there are horse hairs.
चतुर्गुणं राजसूये फलमाप्नोति मानवः । सर्वेभ्योऽपि मखेभ्यो हि परो देवीमखः स्मृतः
A man attains four times the fruit in a Rājasūya sacrifice; among all sacrifices, the Devī’s sacrifice is said to be supreme.
विष्णुना च कृतः पूर्वं ब्रह्मणा च वरानने । शङ्करेण महेशेन त्रिपुरासुरनाशने
It was performed in ancient times by Viṣṇu, by Brahmā, O beautiful-faced one, and by Śaṅkara, the great lord, at the destruction of the demon Tripura.
शक्तियज्ञः प्रधानश्च सर्वयज्ञेषु सुन्दरि । नानेन सदृशो यज्ञस्त्रिषु लोकेषु विद्यते
The Śakti sacrifice is the foremost among all sacrifices, O beautiful one; there is no sacrifice like this in the three worlds.
दक्षेण च कृतः पूर्वं महान्संवादसंयुतः । बभूव कलहो यत्र दक्षशङ्करयोः सति
It was performed long ago by Dakṣa, accompanied by a great discussion, where a quarrel arose between Dakṣa and Śaṅkara.
शेपुश्च नन्दिनं विप्रा नन्दी विप्रांश्च कोपतः । यद्धेतोर्दक्षयज्ञं च बभञ्ज चन्द्रशेखरः
The sages cursed Nandī, and Nandī in anger cursed the sages; for this reason, Candraśekhara destroyed Dakṣa’s sacrifice.
चकार देवीयज्ञं स पुरा दक्षः प्रजापतिः । धर्मश्च कश्यपश्चैव शेषश्चापि च कर्दमः
That Prajāpati Dakṣa formerly performed the Devī’s sacrifice, as did Dharma, Kaśyapa, Śeṣa, and Kardama.
स्वायम्भुवो मनुश्चैव तत्पुत्रश्च प्रियव्रतः । शिवः सनत्कुमारश्च कपिलश्च ध्रुवस्तथा
Svāyambhuva Manu, his son Priyavrata, Śiva, Sanatkumāra, Kapila, and likewise Dhruva also performed it.
राजसूयसहस्राणां फलमाप्नोति निश्चितम् । देवीयज्ञात्परो यज्ञो नास्ति वेदे फलप्रदः
One certainly attains the fruit of a thousand Rājasūya sacrifices; there is no sacrifice in the Veda superior in fruit to the Devī’s sacrifice.
वर्षाणां शतजीवी च जीवन्मुक्तो भवेद्ध्रुवम् । ज्ञानेन तेजसा चैव विष्णुतुल्यो भवेदिह
He lives for a hundred years and is certainly liberated while living; by knowledge and splendor, he becomes like Viṣṇu here.
देवानां च यथा विष्णुर्वैष्णवानां च नारद । शास्त्राणां च यथा वेदा वर्णानां ब्राह्मणो यथा
Just as Viṣṇu is foremost among the gods, Nārada among the Vaiṣṇavas, the Vedas among the scriptures, and the brāhmaṇa among the castes,
तीर्थानां च यथा गङ्गा पवित्राणां शिवो यथा । एकादशी व्रतानां च पुष्पाणां तुलसी यथा
Just as the Gaṅgā is supreme among holy places, Śiva among the pure, Ekādaśī among vows, and the tulasī among flowers,
नक्षत्राणां यथा चन्द्रः पक्षिणां गरुडो यथा । यथा स्त्रीणां च प्रकृती राधा वाणी वसुन्धरा
Just as the moon is chief among stars, Garuḍa among birds, and among women, Prakṛti, Rādhā, Vāṇī, and Vasundharā,
शीघ्राणां चेन्द्रियाणां च चञ्चलानां मनो यथा । प्रजापतीनां ब्रह्मा च प्रजानां च प्रजापतिः
Just as the mind is swiftest among the senses and the most restless, Brahmā is chief among the progenitors, and Prajāpati among all creatures,
वृन्दावनं वनानां च वर्षाणां भारतं यथा । श्रीमतां च यथा श्रीश्च विदुषां च सरस्वती
Just as Vṛndāvana is best among forests, Bhārata among lands, Śrī among the prosperous, and Sarasvatī among the learned,
पतिव्रतानां दुर्गा च सौभाग्यानां च राधिका । देवीयज्ञस्तथा वत्से सर्वयज्ञेषु भामिनि
Just as Durgā is foremost among devoted wives, Rādhikā among the fortunate, and the Devī-yajña among all sacrifices, O beautiful one,