काश्चित्संयोगविरताः काश्चिदालिंगने रताः
प्रगच्छंतः कियद्दूरं ददृशुश्चाश्रमान्बहून्
रूपेणैव गुणेनैव वेषेण यौवनेन च
त्रयस्त्रिंशद्वयस्याश्च राधिकायाश्च गोपिकाः
सुशीला च शशिकला यमुना माधवी रती
चंद्रमुखी च सावित्री गायत्री सुमुखी सुखा
कालिका कमला दुर्गा भारती च सरस्वती
कृष्णप्रिया सती चैव नंदिनी नंदनेति च
अमूल्यरत्नकलशसमूहैः शिखरोज्ज्वलान्
ब्रह्मांडाद्बहिरूर्ध्वं च नास्ति लोकस्तदूर्ध्वकः १८८. तदधश्च जलं ध्वांतमगंतव्यमदृश्यकम्
श्रीनारायण उवाच पुनराजग्मू राधायाः प्रधानद्वारमेव च
सद्रत्नमणिनिर्माणं वेदिकायुग्मसंयुतम्
अमूल्यरत्नरचितकपाटेन विभूषितम्
रत्नसिंहासनस्थं च रत्नाभरणभूषितम्
द्वारं चित्रविचित्रेण विचित्रं परमाद्भुतम्
तानुवाच द्वारपालो निःशंकं त्रिदशेश्वरान्
किंकरान्प्रेषयामास श्रीकृष्णस्थानमेव च
द्वारे नियुक्तं ददृशुश्चंद्रभानुं च नारद
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् 4.5.
तं संभाष्य ययुर्देवास्तृतीयं द्वारमुत्तमम्
द्वारे नियुक्तं ददृशुः सूर्यभानुं च नारद
मणिकुण्डलयुग्मेन कपोलस्थलराजितम्
नवलक्षेण गोपानां वेष्टितं च नृपेंद्रवत्
तेभ्यो विलक्षणं रम्यं सुदीप्तं मणितेजसा
द्वारे नियुक्तं ददृशुर्वसुभानुं व्रजेश्वरम्
रत्नसिंहासनस्थं च रत्नभूषणभूषितम्
तं संभाष्य ययुर्देवा पञ्चमं द्वारमेव च
द्वारपालं च ददृशुर्देवभानुं च तत्र वै
मयूरपिच्छचूडं च रत्नमालाविभूषितम् 4.5.
चंदनागरुकस्तूरीकुङ्कुमद्रवचर्चितम्