निर्मितैर्वेदिभिर्युक्तं परितो रत्नमंडपम्
दधिपूर्णलाजफलपुष्पदूर्वांकुरान्वितम्
रंभास्तंभसमूहैश्च कुङ्कुमाक्तैर्विराजितम्
सिंदूरकुंकुमाक्तैश्च गंधचंदनचर्चितैः
गोपिकानां समूहैश्च क्रीडासक्तैश्च वेष्टितम
वह्निशौचांशुकै रम्यैः श्वेतचामरदर्पणैः
षोडशद्वारसंयुक्तान्द्वारपालैश्च रक्षितान्
चंदनागुरुकस्तूरीकुंकुमद्रवचर्चितान्
जग्मुः शीघ्रं कियद्दूरं ददृशुः सुन्दरं ततः
देवाधिदेव्या गोपीनां वरायाश्चारुनिर्मितम्
सर्वानिर्वचनीयं च पंडितैर्न निरूपितम्
शतमंदिरसंयुक्तं ज्वलितं रत्नतेजसा
दुर्लंघ्याभिर्गभीराभिः परिखाभिः सुशोभितम्
सुमूल्यरत्नखचितप्राकारैः परिवेष्टितम्
संयुक्तरत्नचित्रैश्च विचित्रैर्वर्तुलं मुने
सर्वतोऽपि ततस्तत्र षोडशद्वारसंयुतम्
सद्रत्नक्षुद्रकलशसमूहैः सुमनोहरैः
ततः प्रदक्षिणीकृत्य कियद्दूरं ययुर्मुदा
गोपानां गोपिकानां च ददृशुश्चाश्रमान्परान्
दर्शंदर्शं च परितो गोपानां सर्वमाश्रमम्
गोलोकं निखिलं दृष्ट्वा पुलकांगं ययुः सुराः
ददृशुः शतशृंगं च तद्बहिर्विरजानदीम्
वाय्वाधारं च गोलोकं सद्रत्नमयमद्भुतम्
युक्तं सहस्रैः सरसां केवलं मंगलालयम्
सुतानं चारुसंगीतं राधाकृष्णगुणान्वितम्
क्षणेन चेतनां प्राप्य ते देवाः कृष्णमानसाः
ददृशुर्गोपिकाः सर्वा नानावेषविधायिकाः
काश्चिच्चामरहस्ताश्च करतालकराः पराः
सद्रत्नकिंकिणीजालशब्देन शब्दिता वराः
पुंवेषनायिकाः काश्चित्काश्चित्तासां च नायिकाः