सुपक्वमधुरस्वादुफलैर्वृंदारकं मुने
पुष्पोद्यानसहस्रेण पुष्पितेन सुगंधिना
पंचाशत्कोटिगोपीनां विलासैश्च विराजितम्
गोपानां च समूहैश्च द्वारपालैः समन्वितम्
आश्रमै रत्नखचितैर्नानाभोगसमन्वितैः
भक्तानां गोपवृन्दानामाश्रमैः शतकोटिभिः
आश्रमैः पार्षदानां च ततोऽधिकविलक्षणैः
पार्षदप्रवराणां च श्रीकृष्णरूपधारिणाम्
राधिकाशुद्धभक्तानां गोपीनामाश्रमैर्वरैः
तासां च किकरीणां च भवनैः सुमनोहरैः
शतजन्मतपःपूता भक्ता ये भारते भुवि
स्वप्ने ज्ञाने हरेर्ध्याने विविष्टमानसा मुने
तेषां श्रीकृष्णभक्तानां निवासैः सुमनोहरैः
पुष्पशय्यापुष्पमालाश्वेतचामरशोभितैः
देवास्तमद्भुतं दृष्ट्वा कियद्दूरं ययुर्मुदा |
पंचयोजनविस्तीर्णमूर्ध्वं तद्द्विगुणं मुने
रक्तपक्कफलाकीर्णं शोभितं रत्नवेदिभिः
पीतवस्त्रपरीधानान्क्रीडासक्तमनोहरान्
ददृशुस्तत्र देवेशाः पार्षदप्रवरान्हरेः
सिंदूराकारमणिभिः परितो रचितं मुने
निर्मितैर्वेदिभिर्युक्तं परितो रत्नमंडपम्
दधिपूर्णलाजफलपुष्पदूर्वांकुरान्वितम्
रंभास्तंभसमूहैश्च कुङ्कुमाक्तैर्विराजितम्
सिंदूरकुंकुमाक्तैश्च गंधचंदनचर्चितैः
गोपिकानां समूहैश्च क्रीडासक्तैश्च वेष्टितम
वह्निशौचांशुकै रम्यैः श्वेतचामरदर्पणैः
षोडशद्वारसंयुक्तान्द्वारपालैश्च रक्षितान्
चंदनागुरुकस्तूरीकुंकुमद्रवचर्चितान्
जग्मुः शीघ्रं कियद्दूरं ददृशुः सुन्दरं ततः
देवाधिदेव्या गोपीनां वरायाश्चारुनिर्मितम्