तालानां नारिकेलानां वृंदैर्वृंदारकं वनम्
गुर्वाकाम्रातकानां च जंबीराणां च नारद
सुपक्वफलसंयुक्तैः समूहैश्च विराजितम्
निंबानां शाल्मलीनां च तित्तिडीनां च शोभनैः
परितः कल्पवृक्षाणां वृन्दैर्वृन्दैर्विराजितम्
एतासां च समूहैश्च यूथिकाभिः समन्वितम्
रत्नप्रदीपदीपैश्च धूपेन सुरभीकृतैः
चंदनाक्तैः पुष्पतल्पैर्मालाजालसमन्वितैः
रत्नालंकारशोभाढयैर्गोपीवृंदैश्च वेष्टितम्
द्वात्रिंशत्काननं तत्र रम्यं रम्यं मनोहरम्
सुपक्वमधुरस्वादुफलैर्वृंदारकं मुने
पुष्पोद्यानसहस्रेण पुष्पितेन सुगंधिना
पंचाशत्कोटिगोपीनां विलासैश्च विराजितम्
गोपानां च समूहैश्च द्वारपालैः समन्वितम्
आश्रमै रत्नखचितैर्नानाभोगसमन्वितैः
भक्तानां गोपवृन्दानामाश्रमैः शतकोटिभिः
आश्रमैः पार्षदानां च ततोऽधिकविलक्षणैः
पार्षदप्रवराणां च श्रीकृष्णरूपधारिणाम्
राधिकाशुद्धभक्तानां गोपीनामाश्रमैर्वरैः
तासां च किकरीणां च भवनैः सुमनोहरैः
शतजन्मतपःपूता भक्ता ये भारते भुवि
स्वप्ने ज्ञाने हरेर्ध्याने विविष्टमानसा मुने
तेषां श्रीकृष्णभक्तानां निवासैः सुमनोहरैः
पुष्पशय्यापुष्पमालाश्वेतचामरशोभितैः
देवास्तमद्भुतं दृष्ट्वा कियद्दूरं ययुर्मुदा |
पंचयोजनविस्तीर्णमूर्ध्वं तद्द्विगुणं मुने
रक्तपक्कफलाकीर्णं शोभितं रत्नवेदिभिः
पीतवस्त्रपरीधानान्क्रीडासक्तमनोहरान्
ददृशुस्तत्र देवेशाः पार्षदप्रवरान्हरेः
सिंदूराकारमणिभिः परितो रचितं मुने