दर्पणैः पूर्णचंद्रास्यसौंदर्यदर्शनोत्सुकैः
सुंदरीणां समूहैश्च रक्षितं राधिकाज्ञया
श्वेतरक्तैर्लोहितैश्च वेष्टितैः पद्मराजितैः
भोगद्रव्यसकर्पूरतांबूलवस्त्रसंयुतैः
विचित्रपुष्पमालाभिः शोभितैः शोभितं मुने
ततो विचक्षणं रम्यं ददृशुः सुंदरं वनम्
क्रीडास्थानं तयोरेव कल्पवृक्षचयान्वितम्
कस्तूरीयुक्तपत्राब्जैः पुष्पौघैः सुरभीकृतम्
कुत्र हेलिकदंबानां कदंबैः कमनीयकम्
सुगंधिकुसुमानां च गंधेन सुरभीकृतम्
तालानां नारिकेलानां वृंदैर्वृंदारकं वनम्
गुर्वाकाम्रातकानां च जंबीराणां च नारद
सुपक्वफलसंयुक्तैः समूहैश्च विराजितम्
निंबानां शाल्मलीनां च तित्तिडीनां च शोभनैः
परितः कल्पवृक्षाणां वृन्दैर्वृन्दैर्विराजितम्
एतासां च समूहैश्च यूथिकाभिः समन्वितम्
रत्नप्रदीपदीपैश्च धूपेन सुरभीकृतैः
चंदनाक्तैः पुष्पतल्पैर्मालाजालसमन्वितैः
रत्नालंकारशोभाढयैर्गोपीवृंदैश्च वेष्टितम्
द्वात्रिंशत्काननं तत्र रम्यं रम्यं मनोहरम्
सुपक्वमधुरस्वादुफलैर्वृंदारकं मुने
पुष्पोद्यानसहस्रेण पुष्पितेन सुगंधिना
पंचाशत्कोटिगोपीनां विलासैश्च विराजितम्
गोपानां च समूहैश्च द्वारपालैः समन्वितम्
आश्रमै रत्नखचितैर्नानाभोगसमन्वितैः
भक्तानां गोपवृन्दानामाश्रमैः शतकोटिभिः
आश्रमैः पार्षदानां च ततोऽधिकविलक्षणैः
पार्षदप्रवराणां च श्रीकृष्णरूपधारिणाम्
राधिकाशुद्धभक्तानां गोपीनामाश्रमैर्वरैः
तासां च किकरीणां च भवनैः सुमनोहरैः