मृत्युकन्या विचारज्ञा यं प्राप्नोति निषेकतः
मालावत्युवाच कथं हरसि मत्कान्तं जीवितायां मयि प्रिये
मृत्युकन्योवाच न च क्षमा परित्यक्तुं बहुना तपसा सति
सती सतीनां मध्ये च काचित्तेजस्विनी वरा
सर्वापच्छान्तिरेवेह तदा भवति सुन्दरि
कालेन प्रेरिताऽहं च मत्पुत्रा व्याधयश्च वै
पृच्छ कालं महात्मानं धर्मज्ञं धर्मसंसदि 1.15.
मालावत्युवाच नारायणांशो भगवन्नमस्तुभ्यंपराय च
कथं हरसि मत्कान्तं जीवितायां मयि प्रभो
कालपुरुष उवाच वयं भ्रमामः सततमीशाज्ञापरिपालकाः
यस्य सृष्टा च प्रकृतिर्ब्रह्मविष्णुशिवादयः
ध्यायन्ते तत्पदाम्भोजं योगिनश्च विचक्षणाः
यद्भयाद्वाति वातोऽयं सूर्य्यस्तपति यद्भयात्
संहर्त्ता शङ्करः सर्वजगतां यस्य शासनात्
राशि चक्रं ग्रहाः सर्वे भ्रमन्ति यस्य शासनात्
यस्याज्ञया च तरवः पुष्पाणि च फलानि च
यस्याज्ञया जलाधारा सर्वाधारा वसुन्धरा 1.15.
सहसा मोहिता माया मायया यस्य सन्ततम्
यस्यान्तं न विदुर्वेदा वस्तूनां भावगा अपि
यस्य नाम विधिर्विष्णुः सेवते सुमहान्विराट्
सर्वेश्वरः कालकालो मृत्योर्मृत्युः परात्परः
सर्वाभीष्टं च भर्त्तारं प्रदास्यति कृपानिधिः
इत्युक्त्वा कालपुरुषो विरराम च शौनक
ब्राह्मण उवाच कस्तेऽधुना च सन्देहस्तं पृच्छ कन्यके शुभे
ब्राह्मणस्य वचः श्रुत्वा हृष्टा मालावती सती
मालावत्युवाच तत्कारणं च विविधं सर्वं वेदे निरूपितम्
यतो न सञ्चरेद्व्याधिर्दुर्निवारोऽशुभावहः
यद्यत्पृष्मपृष्टं वा ज्ञातमज्ञातमेव वा
मालावतीवचः श्रुत्वा विप्ररूपी जनार्दनः
ब्राह्मण उवाच वेदवेदांगबीजस्य बीजं श्रीकृष्णमीश्वरम्