प्रणम्य देवताः सर्वा जग्मुर्गोलोकमद्भुतम्
ऊर्ध्वं वैकुंठतो गम्यं पंचाशत्कोटियोजनम्
तमनिर्वचनीयं च देवास्ते गमनोत्सुकाः
दृष्ट्वा देवाः सरित्तीरं विस्मयं परमं ययुः
मुक्तामाणिक्यपरममणिरत्नाकरान्वितम्
प्रवालांकुरमुद्भूतं कुत्रचित्सुमनोहरम्
विधेरदृश्यामाश्चर्य निधिश्रेष्ठाकरान्वितम्
कुत्रचिच्च मरकताकरश्रेणीसमन्वितम्
अमूल्यपीतवर्णाभं मणिश्रेण्याकरान्वितम्
कुत्र निर्वचनीयानां मणीनामाकरं परम्
दृष्ट्वा तु परमाश्चर्यं जग्मुस्तत्पारमीश्वराः
पारिजाततरूणां च वनराजिविराजितम्
कोटियोजनमूर्ध्वं च दैर्घ्यं दशगुणोत्तरम्
प्राकाराकारमस्यैव शिखरे रासमंडलम्
पुष्पोद्यानसहस्रेण पुष्पितेन सुगंधिना
सुरत द्रव्यसंयुक्तै राजितं रतिमंदिरैः
रत्नसोपानयुक्तेन सद्रत्नकलशेन च
सिंदूरवर्णमणिभिः परितः खचितेन च
रत्नप्राकारसंयुक्तमणिभेदैर्विराजितम्
रज्जुग्रंथिसमायुक्तरसालपल्लवान्वितैः । परितः कदलीस्तंभसमूहैश्च समन्वितम्
शुक्लधान्यपर्णजालफलदूवांर्कुरान्वितम्
वेष्टितं गोपकन्यानां समूहैः कोटिशो मुने
रत्नांगुलीयललितैर्हस्तांगुलिविराजितैः
भूषितै रत्नभूषाभिः सद्रत्नमुकुटोज्ज्वलैः
सिंदूरबिंदुना सार्द्धमलकाधःस्थलोज्ज्वलैः
शरत्प्रफुल्लपद्मानां शोभामोषणलोचनैः
प्रफुल्लमालतीमालाजालैःकबरशोभितैः चारुणा गमनेनैव गजखंजनगंजनैः
वक्रभ्रूभंगसंयोगश्लक्ष्णस्मितसमन्वितैः
खगेंद्रचंचुशोभाढ्यनासिकोन्नतभूषितैः
नितम्बकठिनश्रोणीपीनभारभरानतैः