शंकर उवाच अनादिमादिमानंदरूपिणं सर्वरूपिणम्
अणिमादिकसिद्धीनां कारणं सर्वकारणम्
वेदे निर्वचनीयं यत्तन्निर्वक्तुं च कः क्षमः
तदतिरिक्तं स्तवनं किमहं स्तौमि निर्गुणम्
पठित्वा मुच्यते दुर्गाद्वाञ्छितं च लभेन्नरः
गोलोकं यात यूयं च यामि पश्चाच्छ्रिया सह
एते यास्यंति गोलोके तथा देवी सरस्वती सावित्री वेदमाता च पश्चाद्यास्यंति निश्चितम्
नारायणश्च कृष्णोऽहं श्वेतद्वीपनिवासकृत्
कलाकलांशकलया सुरासुरनरादयः
वयं पश्चाद्गमिष्यामः सर्वेषामिष्टसिद्धये
प्रणम्य देवताः सर्वा जग्मुर्गोलोकमद्भुतम्
ऊर्ध्वं वैकुंठतो गम्यं पंचाशत्कोटियोजनम्
तमनिर्वचनीयं च देवास्ते गमनोत्सुकाः
दृष्ट्वा देवाः सरित्तीरं विस्मयं परमं ययुः
मुक्तामाणिक्यपरममणिरत्नाकरान्वितम्
प्रवालांकुरमुद्भूतं कुत्रचित्सुमनोहरम्
विधेरदृश्यामाश्चर्य निधिश्रेष्ठाकरान्वितम्
कुत्रचिच्च मरकताकरश्रेणीसमन्वितम्
अमूल्यपीतवर्णाभं मणिश्रेण्याकरान्वितम्
कुत्र निर्वचनीयानां मणीनामाकरं परम्
दृष्ट्वा तु परमाश्चर्यं जग्मुस्तत्पारमीश्वराः
पारिजाततरूणां च वनराजिविराजितम्
कोटियोजनमूर्ध्वं च दैर्घ्यं दशगुणोत्तरम्
प्राकाराकारमस्यैव शिखरे रासमंडलम्
पुष्पोद्यानसहस्रेण पुष्पितेन सुगंधिना
सुरत द्रव्यसंयुक्तै राजितं रतिमंदिरैः
रत्नसोपानयुक्तेन सद्रत्नकलशेन च
सिंदूरवर्णमणिभिः परितः खचितेन च
रत्नप्राकारसंयुक्तमणिभेदैर्विराजितम्
रज्जुग्रंथिसमायुक्तरसालपल्लवान्वितैः । परितः कदलीस्तंभसमूहैश्च समन्वितम्