कालेन भारहरणं करिष्यति मदीश्वरः
मधुकाष्ठं चंदनं च कस्तूरीं तीर्थमृत्तिकाम्
इंद्रनीलं सूर्यमणिं रुद्राक्षं कुशमूलकम्
शंखं प्रदीपमालां च शिलामर्च्यां च घंटिकाम् ग्रंथियुक्तं यज्ञसूत्रं दर्पणं श्वेतचामरम्
गोरोचनं च मुक्तां च शुक्तिं माणिक्यमेव च
रजतं कांचनं चैव प्रवालं रत्नमेव च
त्वयि ये स्थापयिष्यंति मूढाश्चैतानि सुन्दरि
ब्रह्मा पृथ्वीं समाश्वास्य देवताभिस्तया सह
गत्वा तमाश्रमं रम्यं ददर्श शंकरं विधिः
व्याघ्रचर्मपरीधानं दक्षकन्यास्थिभूषणम्
नानासिद्धैः परिवृतं योगींद्रगणसेवितम्
गंधर्वाणां च संगीतं श्रुतवंतं कुतूहलात्
जपंतं पञ्चवक्त्रेण हरेर्नामैकमङ्गलम्
एतस्मिन्नंतरे ब्रह्मा तस्थावग्रे स धूर्जटेः
उत्तस्थौ शंकरः शीघ्रं भक्त्या दृष्ट्वा जगद्गुरुम्
प्रणेमुर्देवताः सर्वे शंकरं चंद्रशेखरम्
वृत्तांतं कथयामास पार्वतीशं प्रजापतिः
भक्तापायं समाकर्ण्य पार्वतीपरमेश्वरौ
ततो ब्रह्मा महेशश्च सुरसंघान्वसुंधराम्
ततो देवेश्वरैस्तूर्णमागत्य धर्ममंदिरम्
वैकुंठं परमं धाम जरामृत्युहरं परम् कोटियोजनमूर्ध्वं च ब्रह्मलोकात्सनातनम्
वर्णनीयं न कविभिर्विचित्रं रत्ननिर्मितम्
ते मनोयायिनः सर्वे संप्रापुस्तं मनोहरम्
रत्नसिंहासनस्थं च रत्नालंकारभूषितम्
रत्नकुण्डलयुग्मेन गंडस्थलविराजितम्
शांतं सरस्वतीकांतं लक्ष्मीधृतपदांबुजम्
सुनंदनंदकुमुदैः पार्षदैरुपसेवितम् परमानंदरूपं च भक्तानुग्रहकारकम्
तं प्रणेमुः सुरेंद्राश्च भक्त्या ब्रह्मादयो मुने परमानंदभारार्ताः पुलकांचितविग्रहाः
ब्रह्मोवाच नमामि कमलाकांतं शांतं सर्वेष्टमच्युतम्
मनवश्च मुनींद्राश्च मानुषाश्च चराचराः