ये मिथ्यावादिनस्तात दयासत्य विवर्जिताः
मित्रद्रोही कृतघ्नश्च मिथ्यासाक्ष्यप्रदायकः
कल्याणसूक्तसामानि हरेर्नामैकमंगलम्
जीवघाती गुरुद्रोही ग्रामयाजी च लुब्धकः
पूजायज्ञोपवासादि व्रतानि विविधानि च
सदा द्विषंति ये पापा गोविप्रसुरवैष्णवान्
शंखादीनां च भारेण पीडिताऽहं यथा विधे
इत्येवं कथितं सर्वं मद्व्यथाया निवेदनम्
इत्येवमुक्त्वा वसुधा रुरोद च मुहुर्मुहुः
भारं तवापनेष्यामि दस्यूनामप्युपायतः
कालेन भारहरणं करिष्यति मदीश्वरः
मधुकाष्ठं चंदनं च कस्तूरीं तीर्थमृत्तिकाम्
इंद्रनीलं सूर्यमणिं रुद्राक्षं कुशमूलकम्
शंखं प्रदीपमालां च शिलामर्च्यां च घंटिकाम् ग्रंथियुक्तं यज्ञसूत्रं दर्पणं श्वेतचामरम्
गोरोचनं च मुक्तां च शुक्तिं माणिक्यमेव च
रजतं कांचनं चैव प्रवालं रत्नमेव च
त्वयि ये स्थापयिष्यंति मूढाश्चैतानि सुन्दरि
ब्रह्मा पृथ्वीं समाश्वास्य देवताभिस्तया सह
गत्वा तमाश्रमं रम्यं ददर्श शंकरं विधिः
व्याघ्रचर्मपरीधानं दक्षकन्यास्थिभूषणम्
नानासिद्धैः परिवृतं योगींद्रगणसेवितम्
गंधर्वाणां च संगीतं श्रुतवंतं कुतूहलात्
जपंतं पञ्चवक्त्रेण हरेर्नामैकमङ्गलम्
एतस्मिन्नंतरे ब्रह्मा तस्थावग्रे स धूर्जटेः
उत्तस्थौ शंकरः शीघ्रं भक्त्या दृष्ट्वा जगद्गुरुम्
प्रणेमुर्देवताः सर्वे शंकरं चंद्रशेखरम्
वृत्तांतं कथयामास पार्वतीशं प्रजापतिः
भक्तापायं समाकर्ण्य पार्वतीपरमेश्वरौ
ततो ब्रह्मा महेशश्च सुरसंघान्वसुंधराम्
ततो देवेश्वरैस्तूर्णमागत्य धर्ममंदिरम्