न जेता ते त्रिभुवने ह्यसुरेंद्रो भविष्यसि
आगमिष्यसि पंचाशद्युगांते तु ममाशिषा 4.3.
त्वद्भक्तिरहितं मां च कदाचिन्न करिष्यसि
पश्चाज्जगाम सा देवी रुरोद च पुनःपुनः
श्रीदामाऽपि च तां नत्वा रुरोद प्रेमविह्वलः
गते श्रीदाम्नि सा देवी जगामेश्वरसन्निधिम्
शोकातुरां च तां कृष्णो बोधयामास प्रेयसीम्
राधा जगाम धरणीं वाराहे हरिणा सह
इत्येवं कथितं सर्वं श्रीकृष्णाख्यानमंगलम्
आजगाम जगन्नाथो वद वेदविदां वर
भृशं बभूव शोकार्ता ब्रह्माणं शरणं ययौ
सुरैश्चासुरसंतप्तैर्भृशमुद्विग्नमानसैः
ददर्श तस्यां देवेशं ज्वलंतं ब्रह्मतेजसा
अप्सरोगणनृत्यं च पश्यंतं सस्मितं मुदा
जपंतं परमं ब्रह्म कृष्ण इत्यक्षरद्वयम्
भक्त्या सा त्रिदशैः सार्द्धं प्रणम्य चतुराननम् साऽश्रुपूर्णा सपुलका तुष्टाव च रुरोद च
तामुवाच जगद्धाता कथं स्तौषि च रोदिषि
सुस्थिरा भव कल्याणि भयं किं ते मयि स्थिते
कथमागमनं देवा युष्माकं मम सन्निधिम्
भाराक्रांता च वसुधा दस्युग्रस्ता वयं प्रभो
गतिस्त्वमस्या भो ब्रह्मन्निर्वृतिं कर्तुमर्हसि
वयं तेनैव दुःखार्तास्तद्भारहरणं कुरु
दूरीकृत्य भयं वत्से सुखं तिष्ठ ममांतिकम्
अपनेष्यामि तं भद्रे भद्रं ते भविता धुवम् पीडिता येन येनैवं प्रसन्नवदनेक्षणा
विना बंधुं सविश्वासं नान्यं कथितुमर्हति
स्त्रीजातिरबला शश्वद्रक्षणीया स्वबंधुभिः
त्वया पृष्टा जगत्तात न लज्जा कथितुं मम
कृष्णभक्तिविहीना ये ये च तद्भक्तनिंदकाः
स्वधर्माचारहीना ये नित्यकृत्यविवर्जिताः
पितृमातृगुरुस्त्रीणां पोषणं पुत्रपोष्ययोः