यथाऽसुराश्च त्रिदशा नित्यं निंदंति संततम्
गोप व्रजासुरीं योनिं गोलोकाच्च बहिर्भव 4.3.
रासेश्वरी तमित्युक्त्वा सुष्वाप विरराम च
श्रुत्वा च वचनं तस्याः कोपेन स्फुरिताधरः श्रीदामोवाच मानुष्या इव कोपस्ते तस्मात्त्वं मानुषी भुवि
भविष्यसि न संदेहो मया शप्ता त्वमंबिके
मूढा रापाणपत्नी त्वां वक्ष्यति जगतीतले
भविष्यति महायोगी राधाशापेन गर्भजः
भविता ते वर्षशतं विच्छेदो हरिणा सह
तामित्युक्त्वा च नत्वा च स जगाम हरेः पुरः
आनुपूर्व्यात्तु तत्सर्वं रुरोद च भृशं पुनः
न जेता ते त्रिभुवने ह्यसुरेंद्रो भविष्यसि
आगमिष्यसि पंचाशद्युगांते तु ममाशिषा 4.3.
त्वद्भक्तिरहितं मां च कदाचिन्न करिष्यसि
पश्चाज्जगाम सा देवी रुरोद च पुनःपुनः
श्रीदामाऽपि च तां नत्वा रुरोद प्रेमविह्वलः
गते श्रीदाम्नि सा देवी जगामेश्वरसन्निधिम्
शोकातुरां च तां कृष्णो बोधयामास प्रेयसीम्
राधा जगाम धरणीं वाराहे हरिणा सह
इत्येवं कथितं सर्वं श्रीकृष्णाख्यानमंगलम्
आजगाम जगन्नाथो वद वेदविदां वर
भृशं बभूव शोकार्ता ब्रह्माणं शरणं ययौ
सुरैश्चासुरसंतप्तैर्भृशमुद्विग्नमानसैः
ददर्श तस्यां देवेशं ज्वलंतं ब्रह्मतेजसा
अप्सरोगणनृत्यं च पश्यंतं सस्मितं मुदा
जपंतं परमं ब्रह्म कृष्ण इत्यक्षरद्वयम्
भक्त्या सा त्रिदशैः सार्द्धं प्रणम्य चतुराननम् साऽश्रुपूर्णा सपुलका तुष्टाव च रुरोद च
तामुवाच जगद्धाता कथं स्तौषि च रोदिषि
सुस्थिरा भव कल्याणि भयं किं ते मयि स्थिते
कथमागमनं देवा युष्माकं मम सन्निधिम्
भाराक्रांता च वसुधा दस्युग्रस्ता वयं प्रभो