काश्चिदूचुरिति प्रेम्णा राधिकायां हरिं मुने
काश्चिदित्यूचुरीशं च परिहासपरं वचः
काश्चनोचुरिति हरिं सस्मितं पुरतः स्थितम् 4.3.
काश्चनोचुरिति प्राणनाथं गोप्यो दुरक्षरम्
काश्चनोचुरिति विभुं व्रज स्थानांतरं हरे
काश्चनोचुरितीदं तं प्रगल्भाः प्रमदोत्तमाः
काश्चिन्निवारयामासुर्माधवं प्रमदोत्तमाः
गोपीर्भिर्वार्यमाणे च जगत्कारणकारणे
कोपादुवाच श्रीदामा राधिकां परमेश्वरीम्
विचारणां विना देवि करोषि भर्त्सनं वृथा
ब्रह्मानंतेशदेवेशं जगत्कारणकारणम्
यस्य पादार्चनेनैव सर्वेषामीश्वरी परा 4.3.
भ्रूभंगलीलया कृष्णः स्रष्टुं शक्तश्च त्वद्विधाः
वैकुंठे श्रीहरेरस्य चरणांबुजमार्जनम्
सरस्वती च स्तवनैः कर्णपीयूषसुंदरैः
भीता च प्रकृतिर्माया सर्वेषां बीजरूपिणी
स्तुवंति सततं वेदा महिम्नः षोडशीं कलाम्
वक्त्रैश्चतुर्भिर्यं ब्रह्मा वेदानां जनको विभुः
शंकरः पंचभिर्वक्त्रैः स्तौति यं योगिनां गुरुः
शेषः सहस्रवदनैः परमात्मानमीश्वरम्
धर्मःपाता च सर्वेषां साक्षी च जगतां पतिः
श्वेतद्वीपनिवासी यः पाता विष्णुः स्वयं विभुः 4.3.
सुरासुरमुनींद्राश्च मनवो मानवा बुधाः
क्षिप्रं रोषं परित्यज्य भज पादांबुजं हरेः
निमेषमात्रादस्यैव ब्रह्मणः पतनं भवेत्
एवमष्टोत्तरशतमायुर्यस्य जगद्विधेः
श्रीदाम्नो वचनं श्रुत्वा केवलं कटुमुज्ज्वलम्
रासेश्वरी बहिर्गत्वा तमुवाच ह निष्ठुरम्
रेरे जाल्म महामूढ शृणु लॆपटकिंकर
त्वदीश्वरश्च श्रीकृष्णो न ह्यस्माकं व्रजाधम