देवचूडामणेः क्रीडा नद्या सार्द्धमहो बत
ये त्वां वदंति सर्वेशं ते किं जानंति तत्त्वतः
इत्युक्त्वा राधिका देवी विरराम रुषाऽन्विता
काश्चिच्चामरहस्ताश्च काश्चित्सूक्ष्मांशुकांबराः
वासितोदकराः काश्चित्काश्चित्पद्मकरा वराः 4.3.
रत्नालंकारहस्ताश्च काश्चित्कज्जलवाहिकाः
काश्चिदावीरहस्ताश्च यंत्रहस्ताश्च काश्चन
करतालकराः काश्चिद्गेंदुहस्ताश्च काश्चन
संगीतनिपुणाः काश्चित्काश्चिन्नर्तनतत्पराः
सुधापात्रकराः काश्चिदंघ्रिपीठकराः पराः
पुटांजलिकराः काश्चित्काश्चित्स्तुतिपरा वराः
बहिर्देशस्थिताः काश्चित्कोटिशः कोटिशः सदा
कृष्णमभ्यंतरं गंतुं न ददुर्द्वारसंस्थिताः नानुरूपमत्यकथ्ययमयोग्यमतिकर्कशम्
हे कृष्ण विरजाकांत गच्छ मत्पुरतो हरे
शीघ्रं पद्मावतीं गच्छ रत्नमालां मनोरमाम् 4.3.
हे नदीकांत देवेश देवानां च गुरोर्गुरो
शश्वत्ते मानुषाणां च व्यवहारस्य लंपट
राधिकावचनं श्रुत्वा तमूचुर्गोपिका हरिम्
काश्चिदूचुरिति हरे गच्छ स्थानांतरं क्षणम्
काश्चिदूचुरिति प्रीत्या क्षणं गच्छ गृहांतरम्
काश्चिदूचुरिति प्रेम्णा राधिकायां हरिं मुने
काश्चिदित्यूचुरीशं च परिहासपरं वचः
काश्चनोचुरिति हरिं सस्मितं पुरतः स्थितम् 4.3.
काश्चनोचुरिति प्राणनाथं गोप्यो दुरक्षरम्
काश्चनोचुरिति विभुं व्रज स्थानांतरं हरे
काश्चनोचुरितीदं तं प्रगल्भाः प्रमदोत्तमाः
काश्चिन्निवारयामासुर्माधवं प्रमदोत्तमाः
गोपीर्भिर्वार्यमाणे च जगत्कारणकारणे
कोपादुवाच श्रीदामा राधिकां परमेश्वरीम्
विचारणां विना देवि करोषि भर्त्सनं वृथा