स्थितिर्नैकत्र युष्माकं भविष्यति पृथक्पृथक्
द्वीपस्थाभिर्नदीभिश्च सह क्रीडंतु निर्जने
कनिष्ठः कथयामास मातृशापं च बालकान्
श्रुत्वा विवरणं सर्वे प्रजग्मुर्धरणीतलम्
सप्तद्वीपसमुद्राश्च सप्त तस्थुर्विभागशः 4.3.
लवणेक्षुसुरा सर्पिर्दधिदुग्धजलार्णवाः
व्याप्ताः समुद्राः सप्तैव सप्तद्वीपां वसुंधराम्
रुरोद च भृशं साध्वी पुत्रविच्छेदकातरा
तां शोकसागरे मग्नां विज्ञाय राधिकापतिः
दृष्ट्वा हरिं सा तत्याज शोकं रोदनमेव च
चकार श्रीहरिं क्रोडे विजहार स्मरातुरा
वरं तस्यै ददौ प्रीत्या प्रसन्नवदनेक्षणः
यथा राधा तत्समा त्वं भविष्यसि प्रिया मम
इत्युक्तवंतं श्रीकृष्णं वसंतं विरजांतिके
श्रुत्वा रुरोष सा देवी सुष्वाप क्रोधमंदिरे 4.3.
स तस्थौ राधिकाद्वारे श्रीदाम्ना सह नारद
मत्तो बहुतराः कांता गोलोके संति ते हरे
विरजा प्रेयसी कांता सरिद्रूपा बभूव ह
तत्तीरे मंदिरं कृत्वा तिष्ठ तिष्ठ च याहि ताम्
नदस्य नद्या सार्द्धं च संगमो गुणवान्भवेत्
देवचूडामणेः क्रीडा नद्या सार्द्धमहो बत
ये त्वां वदंति सर्वेशं ते किं जानंति तत्त्वतः
इत्युक्त्वा राधिका देवी विरराम रुषाऽन्विता
काश्चिच्चामरहस्ताश्च काश्चित्सूक्ष्मांशुकांबराः
वासितोदकराः काश्चित्काश्चित्पद्मकरा वराः 4.3.
रत्नालंकारहस्ताश्च काश्चित्कज्जलवाहिकाः
काश्चिदावीरहस्ताश्च यंत्रहस्ताश्च काश्चन
करतालकराः काश्चिद्गेंदुहस्ताश्च काश्चन
संगीतनिपुणाः काश्चित्काश्चिन्नर्तनतत्पराः
सुधापात्रकराः काश्चिदंघ्रिपीठकराः पराः