तूर्णं च राधिकाल्यश्च श्रीदामानं सकिंकरम्
श्रुत्वा कोलाहलं शब्दं गोपिकानां हरिः स्वयम्
विरजा राधिकाशब्दादंतर्धानं हरेरपि
सद्यस्तत्र सरिद्रूपं तच्छरीरं बभूव ह
कोटियोजनविस्तीर्णं प्रस्थेऽतिनिम्नमेव च
विरजां च सरिदूपां दृष्ट्वा गेहं जगाम सा
श्रीकृष्णो विरजां दृष्ट्वा सरिद्रूपां प्रियां सतीम्
ममांतिकं समागच्छ प्रेयसीनां परे वरे
नद्यधिष्ठात्रि देवि त्वं भव मूर्तिमती सती
पूर्वरूपाच्च सौभाग्यादिदानीं सुभगा भव
जलादुत्थाय चागच्छ विधाय तनुमुत्तमाम्
कृष्णाज्ञया च विरजा विधाय तनुमुत्तमाम्
पीतवस्त्रपरीधाना स्मेराननसरोरुहा
नितंबश्रोणिभारार्ता पीनोन्नतपयोधरा
सुंदरी सुदरीणां च धन्या मान्या च योषिताम् 4.3.
पक्व दाडिमबीजाभदंतपंक्तिमनोहरा
कस्तूरीबिंदुना सार्धं सिंदूरबिंदुभूषिता
रत्नकुंडलगंडस्था भूषिता रत्नमालया
रत्नकंकणकेयूरचारुशंखकरोज्ज्वला
तां च रूपवतीं दृष्ट्वा प्रेमोद्रेका जगत्पतिः
नानाप्रकारशृंगारं विपरीतादिकं विभुः
विरजा सा रजोयुक्ता धृत्वा वीर्यममोघकम्
दधार गर्भमीशस्य दिव्यं वर्षशतं च सा
माता सा सप्तपुत्राणां श्रीकृष्णस्य प्रिया सती
एकदा हरिणा सार्द्धं वृंदारण्ये च निर्जने 4.3.
एतस्मिन्नंतरे तत्र मातुः क्रोडं जगाम ह
भीतं स्वतनयं दृष्ट्वा तत्याज तां कृपानिधिः
प्रबोध्य बालं सा साध्वी न ददर्शांतिके प्रियम्
शशाप स्वसुतं कोपाल्लवणोदो भविष्यसि
शशाप बालान्सर्वांश्च यांतु मूढा महीतलम्