रतिमंदिरलक्षैश्च रत्नसारविनिर्मितैः
मणींद्रसारकलशैः शेखरोज्ज्वलितैर्युतम्
शोभितं रत्नशय्याभी रत्नपात्रघटान्वितम्
कुंकुमाभमणीनां च सोपानैः कोटिभिर्युतम्
पद्मकृत्रिमकोटीनां शतकैश्च सुशोभितम्
रत्नेंद्रसाररचितकलशोज्ज्वलशेखरम्
पारिजातप्रसूनानां मालाकोटिविराजितम् 4.2.
सुचारुचंपकानां च नागेशानां मनोहरैः
कदंबानां च मालानां कदंबैश्च विराजितम्
चित्रपुष्पोद्यानसरः काननैश्च विभूषितम्
तत्सूक्ष्मवस्त्रसाराणां वरैराच्छादितं परम्
श्वेतचामरकोटीभिर्वज्रकोटिभिरन्वितम्
पारिजातप्रसूनानां कोटितल्पविराजितम्
रत्नशय्याकोटिभिश्च चित्रवज्रपरिच्छदैः
पुष्पोपधानसंयुक्तैः शृंगारार्हाभिरन्वितम्
एवंभूताद्रथात्तूर्णमवरुह्य हरिप्रिया
द्वारे नियुक्तं ददृशे द्वारपालं मनोहरम् 4.2.
गोपं श्रीदामनामानं श्रीकृष्णप्रियकिंकरम्
गच्छ दूरं गच्छ दूरं रतिलंपटकिंकर
राधिकावचनं श्रुत्वा निःशंकः पुरतः स्थितः
तूर्णं च राधिकाल्यश्च श्रीदामानं सकिंकरम्
श्रुत्वा कोलाहलं शब्दं गोपिकानां हरिः स्वयम्
विरजा राधिकाशब्दादंतर्धानं हरेरपि
सद्यस्तत्र सरिद्रूपं तच्छरीरं बभूव ह
कोटियोजनविस्तीर्णं प्रस्थेऽतिनिम्नमेव च
विरजां च सरिदूपां दृष्ट्वा गेहं जगाम सा
श्रीकृष्णो विरजां दृष्ट्वा सरिद्रूपां प्रियां सतीम्
ममांतिकं समागच्छ प्रेयसीनां परे वरे
नद्यधिष्ठात्रि देवि त्वं भव मूर्तिमती सती
पूर्वरूपाच्च सौभाग्यादिदानीं सुभगा भव