शीघ्रमानयताल्यश्च तया सार्द्धं हरिं प्रियम्
मदाश्रयं समागंतुं यूयं दासं न दास्यथ
राधिकावचनं श्रुत्वा काश्चिद्गोप्यो भयान्विताः तामूचुः पुरतः स्थित्वा सर्वा एव प्रियां सतीम्
वयं तं दर्शयिष्यामो विरजासहितं विभुम्
तासां च वचनं श्रुत्वा रथमारुह्य सुंदरी
रत्नेंद्रसाररचितं कोटिसूर्यसमप्रभम्
राजितं चित्रराजीभिर्वैजयंतीविराजितम् 4.2.
मणिसारविकारैश्च कोटिस्तंभैः सुशोभितम्
सिंदूराकारमणिभिर्मध्यदेशे विभूषितैः
चतुर्लक्षपरिमितैश्चित्रघंटासमन्वितैः
रतिमंदिरलक्षैश्च रत्नसारविनिर्मितैः
मणींद्रसारकलशैः शेखरोज्ज्वलितैर्युतम्
शोभितं रत्नशय्याभी रत्नपात्रघटान्वितम्
कुंकुमाभमणीनां च सोपानैः कोटिभिर्युतम्
पद्मकृत्रिमकोटीनां शतकैश्च सुशोभितम्
रत्नेंद्रसाररचितकलशोज्ज्वलशेखरम्
पारिजातप्रसूनानां मालाकोटिविराजितम् 4.2.
सुचारुचंपकानां च नागेशानां मनोहरैः
कदंबानां च मालानां कदंबैश्च विराजितम्
चित्रपुष्पोद्यानसरः काननैश्च विभूषितम्
तत्सूक्ष्मवस्त्रसाराणां वरैराच्छादितं परम्
श्वेतचामरकोटीभिर्वज्रकोटिभिरन्वितम्
पारिजातप्रसूनानां कोटितल्पविराजितम्
रत्नशय्याकोटिभिश्च चित्रवज्रपरिच्छदैः
पुष्पोपधानसंयुक्तैः शृंगारार्हाभिरन्वितम्
एवंभूताद्रथात्तूर्णमवरुह्य हरिप्रिया
द्वारे नियुक्तं ददृशे द्वारपालं मनोहरम् 4.2.
गोपं श्रीदामनामानं श्रीकृष्णप्रियकिंकरम्
गच्छ दूरं गच्छ दूरं रतिलंपटकिंकर
राधिकावचनं श्रुत्वा निःशंकः पुरतः स्थितः