अधुना गोपवेषं च गोकुलागमनं हरेः
शंखचूडवधं पूर्वं संक्षेपात्कथितं श्रुतम्
श्रीदाम्नः कलहश्चैव बभूव राधया सह
राधां शशाप श्रीदामा याहि योनिं च मानवीम्
भीता श्रीदामशापात्सा श्रीकृष्णं समुवाच ह
कमुपायं करिष्यामि वद मां भयभंजन
क्षणमेकं युगशतं कालनाथ त्वया विना
शरत्पार्वणचंद्राभं क्षुधापूर्णाननं तव 4.2.
त्वमात्मा मे मनः प्राणा देहमात्रं वहाम्यहम्
स्वप्ने ज्ञाने त्वयि मनः स्मरामि त्वत्पदांबुजम्
कृष्णस्तद्वचनं श्रुत्वा बोधयामास सुंदरीम्
महीतलं गमिष्यामि वाराहे च वरानने
व्रजं गत्वा व्रजे देवि विहरिष्यामि कानने
किं वा तस्य भयं कंसाद्भयांतकारकस्य च
विजहार तया सार्धं गोपवेषं विधाय सः
ब्रह्मणा प्रार्थितः कृष्णः समागत्य महीतलम्
नारद उवाच संक्षेपात्कथितं पूर्वं संव्यस्य कथयाधुना ।। 4.2.
एकदा राधया सार्धं गोलोके श्रीहरिः स्वयम्
राधिकासुखसंभोगाद् बुबुधे न स्वकं परम्
गोपिकां विरजामन्यां शृङ्गारार्थं जगाम ह
तस्या वयस्याः सुंदर्यो गोपीनां शतकोटयः
रत्नसिंहासनस्था सा ददर्श हरिमन्तिके
मनोहरां सस्मितां च पश्यंतीं वक्रचक्षुषा
रत्नालंकारशोभाढ्यां भूषितां शुक्लवाससा
दृष्ट्वा तां श्रीहरिस्तूर्णं विजहार तया सह
मूर्च्छामवाप विरजा कृष्णशृंगारकौतुकात्
तया सक्तं श्रीहरिं च रत्नमंडपसंस्थितम् 4.2.
तासां च वचनं श्रुत्वा सुष्वाप च चुकोप ह
ता उवाच महादेवी मां तं दर्शयितुं क्षमाः
करिष्यामि फलं गोप्याः कृष्णस्य च यथोचितम्