दयाऽस्ति सर्वजीवेषु सर्वं कृष्णम यं जगत्
लब्धानीष्टानि वस्तूनि प्रदातुं हरये मुदा
यन्मनो हरिपादाब्जे स्वप्ने ज्ञाने दिवानिशम् 4.1.
गुरुवक्त्राद्विष्णुमंत्रो यस्य कर्णे विशत्यलम्
पूर्वान्त्सप्त परान्त्सप्त सप्त मातामहादिकान्
कलत्रं कन्यकां बंधुं शिष्यं दौहित्रमात्मनः
सदा वांछति तीर्थानि वैष्णवस्पर्शदर्शने
गोदोहनक्षणं यावद्यत्र तिष्ठंति वैष्णवाः
ध्रुवं तत्र मृतः पापी मुक्तो याति हरेः पदम्
तुलसीकानने गोष्ठे श्रीकृष्णमंदिरे परे
पापानि पापिनां यांति तीर्थस्नानावगाहनात्
न हि स्थातुं शक्नुवंति पापान्येव कृतानि च
भक्तं वर्त्मनि गच्छंतं ये ये पश्यंति मानवाः 4.1.
ये निंदंति हृषीकेशं तद्भक्तं पुण्यरूपिणम्
ते पच्यंते महाघोरे कुंभीपाके भयानके
तस्य दर्शनमात्रेण पुण्यं नश्यति निश्चितम्
वैष्णवस्पर्शमात्रेण मुक्तो भवति पातकी
इत्येवं कथितो विप्र विष्णुवैष्णवयोर्गुणः
यं यं विधाय भूमौ स जगाम स्वालयं विभुः
भारावतरणोपायं दुष्टानां च वधोद्यमम्
अधुना गोपवेषं च गोकुलागमनं हरेः
शंखचूडवधं पूर्वं संक्षेपात्कथितं श्रुतम्
श्रीदाम्नः कलहश्चैव बभूव राधया सह
राधां शशाप श्रीदामा याहि योनिं च मानवीम्
भीता श्रीदामशापात्सा श्रीकृष्णं समुवाच ह
कमुपायं करिष्यामि वद मां भयभंजन
क्षणमेकं युगशतं कालनाथ त्वया विना
शरत्पार्वणचंद्राभं क्षुधापूर्णाननं तव 4.2.
त्वमात्मा मे मनः प्राणा देहमात्रं वहाम्यहम्
स्वप्ने ज्ञाने त्वयि मनः स्मरामि त्वत्पदांबुजम्