यतो न सञ्चरेद्व्याधिर्देहेषु देहधारिणाम्
यतो न सञ्चरेद्व्याधिबीजं दुष्टममङ्गलम्
यो वा योगेन खेदेन देहत्यागं करोति च
ब्राह्मणस्य वचः श्रुत्वा स्फीता मालावती सती
मालावत्युवाच वयसाऽतिशिशुर्दृष्टो ज्ञानं योगविदां परम्
त्वया कृता प्रतिज्ञा च कान्तं जीवयितुं मम
जीवयिष्यति मत्कान्तं पश्चाद्वेदविदां वरः 1.15.
सभायां जीविते कान्ते तस्य तीव्रस्य सन्निधौ
एते ब्रह्मादयो देवा विद्यमानाश्च संसदि
नारीं रक्षति भर्त्तां चेन्न कोऽपि खण्डितुं क्षमः
एवं देवेषु नो शक्तिः शक्रे वा ब्रह्मरुद्रयोः
स्वामी कर्त्ता च हर्त्ता च शास्ता पोष्टा च रक्षिता
कन्या सत्कुलजाता या सा कान्तवशवर्तिनी
दुष्टा परपुमांसं च सेवते या नराधमा
उपबर्हणभार्य्याऽहं कन्या चित्ररथस्य च
सर्वं कालयितुं शक्तस्त्वं च वेदविदां वर
मालावतीवचः श्रुत्वा विप्रो वेदविदां वरः 1.15.
ददर्श मृत्युकन्यां च प्रथमं मालती सती
सस्मितां षड्भुजां शान्तां दयायुक्तां महासतीम्
कालं नारायणांशं च ददर्श पुरतः सती
षड्वक्त्रं षोडशभुजं चतुर्विंशतिलोचनम्
देवस्य देवं विकृतं सर्वसंहाररूपिणम्
ईषद्धास्यप्रसन्नास्यमक्षमालाकरं वरम्
सती ददर्श पुरतो व्याधिसंघान्सुदुर्जयान्
स्थूलपादं कृष्णवर्णं धर्मिष्ठं रविनन्दनम्
धर्माधर्मविचारज्ञं परं धर्मस्वरूपिणम्
तांश्च दृष्ट्वा च निःशङ्का पप्रच्छ प्रथमं यमम् 1.15.
मालावत्युवाच कालव्यतिक्रमे कान्तं कथं हरसि मे विभो
यम उवाच ईश्वराज्ञां विना साध्वि नामृतं चालयाम्यहम्
अहं कालो मृत्युकन्या व्याधयश्च सुदुर्जयाः