जीवन्मुक्तोऽसि पूतस्त्वं शुद्धभक्तो गदाभृतः
पुनासि लोकान्त्सर्वांश्च स्वीयविग्रहदर्शनात्
यत्र कृष्णकथाः संति तत्रैव सर्वदेवताः
कथाः श्रुत्वा कथांते ते यांति सन्तो निरापदम्
सद्यः कृष्णकथावक्ता स्वस्य पुंसां शतं शतम् 4.1.
प्रष्टा तु प्रश्नमात्रेण पुनाति कुलमात्मनः
शतजन्मतपस्तप्तो जन्मेदं भारते लभेत्
अर्चनं वंदनं मन्त्रजपः सेवनमेव च
निवेदनं तस्य दास्यं नवधा भक्तिलक्षणम्
न च विघ्नो भवेत्तस्य परमायुर्न नश्यति
न जहाति समीपं च क्षणं तस्य हरिः स्वयम्
सुदर्शनं भ्रमत्येव तस्य पार्श्वे दिवानिशम्
व्याधयो विपदः शोका विप्राश्च न प्रयांति तम्
ऋषयो मुनयः सिद्धाः सन्तुष्टाः सर्वदेवताः 4.1.
तव कृष्णकथायां च रतिरात्यंतिकी सदा
विप्रेंद्र का प्रशंसेयं जन्म ते ब्रह्ममानसे
पिता विधाता जगतां कृष्णपादाब्जसेवया
रतिः कृष्णकथायां च यस्याश्रुपुलकोद्गमः
पुत्रदारादिकं सर्वं जानाति श्रीहरेरिति
निर्जने तीर्थसंपर्के निःसंगा ये मुदाऽन्विताः
दयाऽस्ति सर्वजीवेषु सर्वं कृष्णम यं जगत्
लब्धानीष्टानि वस्तूनि प्रदातुं हरये मुदा
यन्मनो हरिपादाब्जे स्वप्ने ज्ञाने दिवानिशम् 4.1.
गुरुवक्त्राद्विष्णुमंत्रो यस्य कर्णे विशत्यलम्
पूर्वान्त्सप्त परान्त्सप्त सप्त मातामहादिकान्
कलत्रं कन्यकां बंधुं शिष्यं दौहित्रमात्मनः
सदा वांछति तीर्थानि वैष्णवस्पर्शदर्शने
गोदोहनक्षणं यावद्यत्र तिष्ठंति वैष्णवाः
ध्रुवं तत्र मृतः पापी मुक्तो याति हरेः पदम्
तुलसीकानने गोष्ठे श्रीकृष्णमंदिरे परे