सद्यो वैराग्यजननं भवरोगनिकृंतनम्
कर्मोपभोगरोगाणां खंडने च रसायनम्
जीवनं वैष्णवानां च जगतां पावनं परम्
केन वा प्रार्थितः कृष्ण आजगाम महीतलम्
युगे कुत्र कुतो हेतोः कुत्र वाऽऽविर्बभूव ह
वद कस्य कुले जन्म मायया सुविडंबनम् ।। 4.1.
जगाम गोकुलं कंसभयेन सूतिकागृहात्
हरिर्वा गोपवेषेण गोकुले किं चकार ह
का वा गोपांगना के वा गोपाला बालरूपिणः
कथं राधा पुण्यवती देवी गोकुलवासिनी
कथं गोप्यो दुराराध्यं संप्रापुरीश्वरं परम्
भारावतरणं कृत्वा किं विधाय जगाम सः
सुदुर्लभां हरिकथां तरणिं भवसागरे
पापेंधनानां दहने ज्वलदग्निशिखामिव
तपोजपमहादानात्पृथिव्यां तीर्थदर्शनात् 4.1.
दीक्षायाः सर्वयज्ञेषु यत्फलं लभते नरः
पित्राऽहं प्रेषितो ज्ञानादानाय तव सन्निधिम्
श्रीनारायण उवाच मया ज्ञातोऽसि धन्यस्त्वं पुण्यराशिः सुमूर्तिमान्
जनानां हृदयं सद्यः सुव्यक्तं वचनेन वै
पुत्रे पौत्रे च वचसि प्रतापे चापदि स्त्रियाम्
जीवन्मुक्तोऽसि पूतस्त्वं शुद्धभक्तो गदाभृतः
पुनासि लोकान्त्सर्वांश्च स्वीयविग्रहदर्शनात्
यत्र कृष्णकथाः संति तत्रैव सर्वदेवताः
कथाः श्रुत्वा कथांते ते यांति सन्तो निरापदम्
सद्यः कृष्णकथावक्ता स्वस्य पुंसां शतं शतम् 4.1.
प्रष्टा तु प्रश्नमात्रेण पुनाति कुलमात्मनः
शतजन्मतपस्तप्तो जन्मेदं भारते लभेत्
अर्चनं वंदनं मन्त्रजपः सेवनमेव च
निवेदनं तस्य दास्यं नवधा भक्तिलक्षणम्
न च विघ्नो भवेत्तस्य परमायुर्न नश्यति