गणेश उवाच दारग्रहो हि दुःखाय न सुखाय कदाचन
हरिभक्तेर्व्यवायश्च तपस्यानाशकारकः
गर्भवासकरः शश्वत्तत्त्वज्ञाननिकृन्तकः
गेहोऽयं कारणानां च सर्वमायाकरण्डकम्
निवर्तस्व महाभागे पश्यान्यं कामुकं पतिम्
इत्येवं वचनं श्रुत्वा कोपात्सा तं शशाप ह
इत्याकर्ण्य सुरश्रेष्ठस्तां शशाप शिवात्मजः
तत्पश्चान्महतां शापाद्वृक्षस्त्वं भवितेति च 3.46.
शापं श्रुत्वा तु तुलसी सा रुरोद पुनः पुनः
गणेश्वर उवाच कलांशेन महाभागे स्वयं नारायणप्रिया
प्रिया त्वं सर्वदेवानां श्रीकृष्णस्य विशेषतः ३३' हरेराराधनव्यग्रो बदरीसन्निधिं ययौ
जगाम तुलसी देवी हृदयेन विदूयता
पश्चान्मुनीन्द्रशापेन गणेशस्य च नारद
ततः शङ्करशूलेन स ममारासुरेश्वरः
कथितश्चेतिहासस्ते श्रुतो धर्ममुखात्पुरा
ततः परशुरामोऽसौ जगाम तपसे वनम्
पूजितो वन्दितः सर्वैः सुरेन्द्रमुनिपुङ्गवैः 3.46.
इदं गणपतेः खण्डं यः शृणोति समाहितः
अपुत्रो लभते पुत्रं श्रीगणेशप्रसादतः
यशस्विनं पुत्रिणं च विद्वांसं सुकवीश्वरम्
सुशीलं च सदाचारं प्रशंस्यं वैष्णवं लभेत्
भक्त्या गणेशं संपूज्य वस्त्रालङ्कारचन्दनैः
मृतवत्सा काकवन्ध्या ब्रह्मन्पुत्रं लभेद्ध्रुवम्
संपूर्णं ब्रह्मवैवर्तं श्रुत्वा यल्लभते फलम्
वाञ्छां कृत्वा तु मनसि शृणोति परमास्थितः
प्रदीयते वाचकाय स्वस्तिकं तिललड्डुकान् 3.46.
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
ततस्तद्वचनात्तूर्णं समागत्य तवांतिकम्
ततो गणपतेः खंडमखंडभवखंडनम्
श्रीकृष्णजन्मखंडं च जन्मादेः खंडनं नृणाम्