इत्युक्त्वा तुलसी देवी प्रजहास पुनः पुनः
गणेशस्य प्रधानांगे दत्त्वा किञ्चिज्जलं मुने
बभूव ध्यानभग्नं च तस्य नारद चेतनम्
ध्यानं त्यक्त्वा हरिं स्मृत्वा चापश्यत्कामिनीं पुरः
लम्बोदरश्च तां दृष्ट्वा परं विनयपूर्वकम्
गणेश्वर उवाच पापदोऽशुभदः शश्वद्ध्यानभंगस्तपस्विनाम्
कृष्णः करोतु कल्याणं हन्तु विघ्नं कृपानिधिः
गणेशवचनं श्रुत्वा तमुवाच स्मरातुरा 3.46.
तुलस्युवाच तपस्या मे स्वामिनोऽर्थे त्वं स्वामी भव मे प्रभो
तुलसीवचनं श्रुत्वा गणेशः श्रीहरिं स्मरन्
गणेश उवाच दारग्रहो हि दुःखाय न सुखाय कदाचन
हरिभक्तेर्व्यवायश्च तपस्यानाशकारकः
गर्भवासकरः शश्वत्तत्त्वज्ञाननिकृन्तकः
गेहोऽयं कारणानां च सर्वमायाकरण्डकम्
निवर्तस्व महाभागे पश्यान्यं कामुकं पतिम्
इत्येवं वचनं श्रुत्वा कोपात्सा तं शशाप ह
इत्याकर्ण्य सुरश्रेष्ठस्तां शशाप शिवात्मजः
तत्पश्चान्महतां शापाद्वृक्षस्त्वं भवितेति च 3.46.
शापं श्रुत्वा तु तुलसी सा रुरोद पुनः पुनः
गणेश्वर उवाच कलांशेन महाभागे स्वयं नारायणप्रिया
प्रिया त्वं सर्वदेवानां श्रीकृष्णस्य विशेषतः ३३' हरेराराधनव्यग्रो बदरीसन्निधिं ययौ
जगाम तुलसी देवी हृदयेन विदूयता
पश्चान्मुनीन्द्रशापेन गणेशस्य च नारद
ततः शङ्करशूलेन स ममारासुरेश्वरः
कथितश्चेतिहासस्ते श्रुतो धर्ममुखात्पुरा
ततः परशुरामोऽसौ जगाम तपसे वनम्
पूजितो वन्दितः सर्वैः सुरेन्द्रमुनिपुङ्गवैः 3.46.
इदं गणपतेः खण्डं यः शृणोति समाहितः
अपुत्रो लभते पुत्रं श्रीगणेशप्रसादतः
यशस्विनं पुत्रिणं च विद्वांसं सुकवीश्वरम्