उक्त्वा परशुरामश्चेति नत्वा तां रुरोद ह
अमरो भव हे पुत्र वत्स सुस्थिरतां व्रज
सर्वान्तरात्मा भगवांस्तुष्टस्स्यात्सन्ततं हरिः 3.45.
इष्टदेवे गुरौ यस्य भक्तिर्भवति शाश्वती
श्रीकृष्णस्य च भक्तस्त्वं शिष्यो वै शंकरस्य च
अहो न कृष्णभक्तानामशुभं विद्यते क्वचित्
चन्द्रमा बलवांस्तुष्टो येषां भाग्यवतां भृगो
यस्मै तुष्टः पालयति नरदेवो महान्सुखी
इत्युक्त्वा पार्वती तुष्टा दत्त्वा रामाय चाशिषम्
स्तोत्रं वै काण्वशाखोक्तं पूजाकाले च यः पठेत्
पुत्रार्थी लभते पुत्रं कन्यार्थी कन्यकां लभेत् भ्रष्टराज्यो लभेद्राज्यं नष्टवित्तो धनं लभेत्
यस्य रुष्टो गुरुर्देवो राजा वा बान्धवोऽथवा
दस्युग्रस्तः फणिग्रस्तश्शत्रुग्रस्तो भयानकः ।। 3.45.
राजद्वारे श्मशाने च कारागारे च बन्धने
स्वामिभेदे पुत्रभेदे मित्रभेदे च दारुणे
कृत्वा हविष्यं वर्षं च स्तोत्रराजं शृणोति या
लभते सा दिव्यपुत्रं ज्ञानिनं चिरजीविनम्
कन्यामाता पुत्रहीना पञ्चमासं शृणोति या
नारायण उवाच स्तोत्रेण हरिणोक्तेन स तुष्टाव गणाधिपम्
पूजां चकार भक्त्या च नैवेद्यैर्विविधैरपि
सम्पूज्य भ्रातरं भक्त्या स रामः शंकराज्ञया
नारद उवाच नैवद्यैर्विविधैः पुष्पैस्तुलसीं च विना कथम्
तुलसी सर्वपुष्पाणां मान्या धन्या मनोहरा
नारायण उवाच ब्रह्मकल्पस्य वृत्तान्तं निगूढं च मनोहरम्
एकदा तुलसी देवी प्रोद्भिन्ननवयौवना
ददर्श गङ्गातीरे सा गणेशं यौवनान्वितम्
चन्दनोक्षितसर्वांगं रत्नभूषणभूषितम्
जितेन्द्रियाणां प्रवरं योगीन्द्राणां गुरोर्गुरुम् 3.46.
तुलस्युवाच कथं लम्बोदरो देहो गजवक्त्रं कथं तव
एकदन्तः कथं वक्त्रे वदामुत्र च कारणम्