यमस्तल्लिखनं दूरं करोति तत्क्षणं भिया 1.14.
अहो विलङ्घ्य मल्लोकं मार्गेणानेन यास्यति
दुरितानि च भीतानि कोटिजन्मकृतानि च
पुरातनं कृतं कर्म यद्यत्तस्य शुभाशुभम्
तं विहाय जरा मृत्युर्याति चक्रभिया सति
निःशङ्को याति गोलोकं विहाय मानवीं तनुम्
यावत्कृष्णो हि गोलोके तावद्भक्तो वसेत्सदा
ब्राह्मण उवाच सर्वरोगचिकित्सां च जानामि च चिकित्सकः
मृततुल्यं मृतं रोगात्सप्ताहाभ्यन्तरे सति
राजमृत्युं यमं कालं व्याधिमानीय त्वत्पुरः
यतो न सञ्चरेद्व्याधिर्देहेषु देहधारिणाम्
यतो न सञ्चरेद्व्याधिबीजं दुष्टममङ्गलम्
यो वा योगेन खेदेन देहत्यागं करोति च
ब्राह्मणस्य वचः श्रुत्वा स्फीता मालावती सती
मालावत्युवाच वयसाऽतिशिशुर्दृष्टो ज्ञानं योगविदां परम्
त्वया कृता प्रतिज्ञा च कान्तं जीवयितुं मम
जीवयिष्यति मत्कान्तं पश्चाद्वेदविदां वरः 1.15.
सभायां जीविते कान्ते तस्य तीव्रस्य सन्निधौ
एते ब्रह्मादयो देवा विद्यमानाश्च संसदि
नारीं रक्षति भर्त्तां चेन्न कोऽपि खण्डितुं क्षमः
एवं देवेषु नो शक्तिः शक्रे वा ब्रह्मरुद्रयोः
स्वामी कर्त्ता च हर्त्ता च शास्ता पोष्टा च रक्षिता
कन्या सत्कुलजाता या सा कान्तवशवर्तिनी
दुष्टा परपुमांसं च सेवते या नराधमा
उपबर्हणभार्य्याऽहं कन्या चित्ररथस्य च
सर्वं कालयितुं शक्तस्त्वं च वेदविदां वर
मालावतीवचः श्रुत्वा विप्रो वेदविदां वरः 1.15.
ददर्श मृत्युकन्यां च प्रथमं मालती सती
सस्मितां षड्भुजां शान्तां दयायुक्तां महासतीम्
कालं नारायणांशं च ददर्श पुरतः सती