सृष्टिपालनसंहारशक्तयस्त्रिविधाश्च याः
मधुकैटभभीत्या च त्रस्तो धाता प्रकम्पितः
मधुकैटभयोर्युद्धे त्राताऽसौ विष्णुरीश्वरीम् 3.45.
त्रिपुरस्य महायुद्धे सरथे पतिते शिवे
विष्णुना वृषरूपेण स्वयं शम्भुः समुत्थितः
यदाज्ञया वाति वातः सूर्यस्तपति सन्ततम्
यदाज्ञया हि कालश्च शश्वद्भ्रमति वेगतः
स्रष्टा सृजति सृष्टिं च पाता पाति यदाज्ञया
ज्योतिस्स्वरूपो भगवाञ्छ्रीकृष्णो निर्गुणः स्वयम्
रक्ष रक्ष जगन्मातरपराधं क्षमस्व मे
उक्त्वा परशुरामश्चेति नत्वा तां रुरोद ह
अमरो भव हे पुत्र वत्स सुस्थिरतां व्रज
सर्वान्तरात्मा भगवांस्तुष्टस्स्यात्सन्ततं हरिः 3.45.
इष्टदेवे गुरौ यस्य भक्तिर्भवति शाश्वती
श्रीकृष्णस्य च भक्तस्त्वं शिष्यो वै शंकरस्य च
अहो न कृष्णभक्तानामशुभं विद्यते क्वचित्
चन्द्रमा बलवांस्तुष्टो येषां भाग्यवतां भृगो
यस्मै तुष्टः पालयति नरदेवो महान्सुखी
इत्युक्त्वा पार्वती तुष्टा दत्त्वा रामाय चाशिषम्
स्तोत्रं वै काण्वशाखोक्तं पूजाकाले च यः पठेत्
पुत्रार्थी लभते पुत्रं कन्यार्थी कन्यकां लभेत् भ्रष्टराज्यो लभेद्राज्यं नष्टवित्तो धनं लभेत्
यस्य रुष्टो गुरुर्देवो राजा वा बान्धवोऽथवा
दस्युग्रस्तः फणिग्रस्तश्शत्रुग्रस्तो भयानकः ।। 3.45.
राजद्वारे श्मशाने च कारागारे च बन्धने
स्वामिभेदे पुत्रभेदे मित्रभेदे च दारुणे
कृत्वा हविष्यं वर्षं च स्तोत्रराजं शृणोति या
लभते सा दिव्यपुत्रं ज्ञानिनं चिरजीविनम्
कन्यामाता पुत्रहीना पञ्चमासं शृणोति या
नारायण उवाच स्तोत्रेण हरिणोक्तेन स तुष्टाव गणाधिपम्
पूजां चकार भक्त्या च नैवेद्यैर्विविधैरपि