परशुराम उवाच आविर्भूता विग्रहतः पुरा सृष्ट्युन्मुखस्य च
सूर्य्यकोटिप्रभायुक्ता वस्त्रालङ्कारभूषिता
नवयौवनसम्पन्ना सिन्दूरारुण्यशोभिता 3.45.
अहोऽनिर्वचनीया त्वं चारुमूर्त्तिं च बिभ्रती
मुमोह क्षणमात्रेण दृष्ट्वा त्वां सर्वमोहिनीम्
सद्भिः ख्याता तेन राधा मूलप्रकृतिरीश्वरी
ततो डिम्भं महज्जज्ञे ततो जातो महाविराट्
राधारतिक्रमेणैव तन्निश्वासो बभूव ह
भयघर्म्मजलेनैव पुप्लुवे विश्वगोलकम्
ततस्त्वं पञ्चधाभूय पञ्च मूर्तीश्च बिभ्रती कृष्णप्राणाधिकां राधां तां वदन्ति पुराविदः
वेदाधिष्ठातृमूर्तिर्या वेदशास्त्रप्रसूरपि
ऐश्वर्य्याधिष्ठातृमूर्तिः शान्तिस्त्वं शान्तरूपिणी
रागाधिष्ठातृदेवी या शुक्लमूर्तिस्सतां प्रसूः 3.45.
बुद्धिर्विद्या सर्वशक्तेर्या मूर्तिरधिदेवता
सर्वमङ्गलबीजस्य शिवस्य निलयेऽधुना
शिवे शिवास्वरूपा त्वं लक्ष्मीर्नारायणान्तिके
राधा रासेश्वरस्यैव परिपूर्णतमस्य च
त्वत्कलांशांशकलया देवानामपि योषितः
त्वं विद्या योषितः सर्वास्सर्वेषां बीजरूपिणी
शची शक्रस्य कामस्य कामिनी रतिरीश्वरी
वह्नेः प्रिया हि स्वाहा च कुबेरस्य च सुन्दरी
ऐशानी स्याच्छशिकला शतरूपा मनोः प्रिया
लोपामुद्राऽप्यगस्त्यस्य देवमाताऽदितिस्तथा 3.45.
गङ्गा च तुलसी चापि पृथिव्यां या सरिद्वरा
गृहलक्ष्मी गृहे नॄणां राजलक्ष्मीश्च राजसु
सतां सत्त्वस्वरूपा त्वमसतां कलहाङ्कुरा
सूर्य्ये प्रभास्वरूपा त्वं दाहिका च हुताशने
त्वं भूमौ गन्धरूपा चाप्याकाशे शब्दरूपिणी
सर्वबीजस्वरूपा त्वं संसारे साररूपिणी
कृष्णेन विद्या या दत्ता सर्वज्ञान प्रसूः शुभा