विष्णुरुवाच लम्बोदरं शूर्पकर्णं गजवक्त्रं गुहाग्रजम्
अष्टाख्यार्थं च पुत्रस्य शृणु मातर्हरप्रिये
ज्ञानार्थवाचको गश्च णश्च निर्वाणवाचकः
एकशब्दः प्रधानार्थो दन्तश्च बलवाचकः
दीनार्थवाचको हेश्च रम्बः पालकवाचकः
विपत्तिवाचको विघ्नो नायकः खण्डनार्थकः ।। 3.44.
विष्णुदत्तैश्च नैवेद्यैर्यस्य लम्बं पुरोदरम्
शूर्पाकारौ च यत्कर्णौ विघ्नवारणकारकौ
विष्णुप्रसादं मुनिना दत्तं यन्मूर्ध्नि पुष्पकम्
गुहस्याग्रे च जातोऽयमाविर्भूतो हरालये
त्रिसन्ध्यं यः पठेन्नित्यं स सुखी सर्वतो जयी
गणेश्वरप्रसादेन महाज्ञानी भवेद्ध्रुवम्
महाजडः कवीन्द्रश्च विद्यावांश्च भवेद्ध्रुवम्
नारायण उवाच हितं सारं नीतिसारं परिणामसुखावहम्
विष्णुरुवाच कोपात्कृत्वा दन्तभङ्गं गणेशस्य स्थितोऽशिवे
स्तोत्रेणैव मयोक्तेन स्तुत्वा गणपतिं परम्
श्रीकृष्णस्य परा शक्तिर्बुद्धिरूपा जगत्प्रभोः
सर्वशक्तिस्वरूपेयमनया शक्तिमज्जगत्
सृष्टिं कर्तुं न शक्तश्च ब्रह्मा शक्त्याऽनया विना
सुरसंघेऽसुरग्रस्ते काले घोरतरे द्विज
कृष्णाज्ञयाऽसुरान्हत्वा दत्त्वा तेभ्यः पदं ततः
भार्य्या भूत्वा शंकरस्य पुनः पत्युश्च निन्दया
शंकरस्तपसा लब्धो योगीन्द्राणां गुरोर्गुरुः 3.45.
यं ध्यायस्येव नित्यं किं तं न जानासि बालक
कृताञ्जलिर्नतो भूत्वा स्तुहि दुर्गां शिवप्रियाम्
शिवायाः स्तोत्रराजेन पुरा शूलिकृतेन वै
इत्युक्त्वा श्रीपदं शीघ्रं जगाम श्रीनिकेतनम्
स्तोत्रेण विष्णुदत्तेन सर्वविघ्नहरेण च
कृताञ्जलिपुटो भूत्वा स्नात्वा गङ्गोदके शुभे
आचम्य नत्वा मूर्ध्ना तां भक्तिनम्रात्मकन्धरः