गुरुदत्तेन मन्त्रेण तपसेष्टसुखं लभेत्
सर्वं जयति सर्वत्र विद्यया गुरुदत्तया
विद्यान्धो वा धनान्धो वा यो मूढो न भजेद्गुरुम्
दरिद्रं पतितं क्षुद्रं नरबुद्ध्याऽऽचरेद्गुरुम्
पितरं मातरं भार्य्यां गुरुपत्नीं गुरुं परम्
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः 3.44.
गुरुश्चन्द्रस्तथेन्द्रश्च वायुश्च वरुणोऽनलः
नास्ति वेदात्परं शास्त्रं नहि कृष्णात्परः सुरः
नास्ति क्षमावती भूमेः पुत्रान्नास्त्यपरः प्रियः
शालग्रामात्परो यन्त्रो न क्षेत्रं भारतात्परम्
मोक्षदानां यथा काशी वैष्णवानां यथा शिवः
न च विद्यासमो बन्धुर्नास्ति कश्चिद्गुरोः परः
गुरुस्त्रियां च पुत्रे चाप्यभवद्रामहेलनम्
नारायण उवाच उवाच भगवांस्तत्र सत्यसारं परं वचः
श्रीविष्णुरुवाच नीतियुक्तं वेदसारं परिणामसुखावहम्
यथा ते गजवक्त्रश्च कार्त्तिकेयश्च पार्वति ।। । तथा परशुरामश्च भार्गवो नात्र संशयः ।। 3.44.
नास्त्येषु स्नेहभेदश्च तव वा शंकरस्य च
पुत्रेण सार्द्धं पुत्रस्य विवादो दैवदोषतः
पुत्राभिधानं वेदेषु पश्य वत्से वरानने
पुत्रनामाष्टकं स्तोत्रं सामवेदोक्तमीश्वरि
विष्णुरुवाच लम्बोदरं शूर्पकर्णं गजवक्त्रं गुहाग्रजम्
अष्टाख्यार्थं च पुत्रस्य शृणु मातर्हरप्रिये
ज्ञानार्थवाचको गश्च णश्च निर्वाणवाचकः
एकशब्दः प्रधानार्थो दन्तश्च बलवाचकः
दीनार्थवाचको हेश्च रम्बः पालकवाचकः
विपत्तिवाचको विघ्नो नायकः खण्डनार्थकः ।। 3.44.
विष्णुदत्तैश्च नैवेद्यैर्यस्य लम्बं पुरोदरम्
शूर्पाकारौ च यत्कर्णौ विघ्नवारणकारकौ
विष्णुप्रसादं मुनिना दत्तं यन्मूर्ध्नि पुष्पकम्
गुहस्याग्रे च जातोऽयमाविर्भूतो हरालये