ब्रह्मविष्णुशिवादीनां सेव्यं बीजं परात्परम्
साकारं च निराकारं ज्योतिः स्वेच्छामयं विभुम् 1.14.
निर्लिप्तसाक्षिरूपं च भक्तानुग्रहविग्रहम्
स सर्वं मन्यते तुच्छं सालोक्यादिचतुष्टयम्
ऐश्वर्यं लोष्टतुल्यं च नश्वरं चैव मन्यते
जल बुद्बुदवद् बुद्ध्या चातितुच्छं न गण्यते
दास्यं विना न याचेत श्रीकृष्णस्य पदं परम्
परिपूर्णतमं ब्रह्म निषेव्यं सुस्थिरः सदा
श्वशुरस्य शतं पूर्वमुद्धृत्य चावलीलया
उद्धरेत्कृष्णभक्तश्च गोलोकं याति निश्चितम्
यमस्तल्लिखनं दूरं करोति तत्क्षणं भिया 1.14.
अहो विलङ्घ्य मल्लोकं मार्गेणानेन यास्यति
दुरितानि च भीतानि कोटिजन्मकृतानि च
पुरातनं कृतं कर्म यद्यत्तस्य शुभाशुभम्
तं विहाय जरा मृत्युर्याति चक्रभिया सति
निःशङ्को याति गोलोकं विहाय मानवीं तनुम्
यावत्कृष्णो हि गोलोके तावद्भक्तो वसेत्सदा
ब्राह्मण उवाच सर्वरोगचिकित्सां च जानामि च चिकित्सकः
मृततुल्यं मृतं रोगात्सप्ताहाभ्यन्तरे सति
राजमृत्युं यमं कालं व्याधिमानीय त्वत्पुरः
यतो न सञ्चरेद्व्याधिर्देहेषु देहधारिणाम्
यतो न सञ्चरेद्व्याधिबीजं दुष्टममङ्गलम्
यो वा योगेन खेदेन देहत्यागं करोति च
ब्राह्मणस्य वचः श्रुत्वा स्फीता मालावती सती
मालावत्युवाच वयसाऽतिशिशुर्दृष्टो ज्ञानं योगविदां परम्
त्वया कृता प्रतिज्ञा च कान्तं जीवयितुं मम
जीवयिष्यति मत्कान्तं पश्चाद्वेदविदां वरः 1.15.
सभायां जीविते कान्ते तस्य तीव्रस्य सन्निधौ
एते ब्रह्मादयो देवा विद्यमानाश्च संसदि
नारीं रक्षति भर्त्तां चेन्न कोऽपि खण्डितुं क्षमः