अतिथिः पूजितो येन पूजिताः सर्वदेवताः
स्नानेन सर्वतीर्थेषु सर्वदानेन यत्फलम् ४५' तदेवातिथिसेवायाः कलां नार्हन्ति षोडशीम्
अतिथिर्यस्य भग्नाशो याति रुष्टश्च मन्दिरात्
स्त्रीगोघ्नश्च कृतघ्नश्च ब्रह्मघ्नो गुरुतल्पगः
सन्ध्याहीनः स्वघाती च सत्यघ्नो हरिनिन्दकः
मित्रद्रोही कृतघ्नश्च वृषवाहश्च सूपकृत् 3.44.
शूद्रश्राद्धान्नभोजी च शूद्रश्राद्धेषु भोजकः
लाक्षामांसतिलानां च लवणस्य तिलस्य च
एकादशीकृष्णसेवाहीनो विप्रश्च भारते
कालसूत्रे च नरके पतन्ति ब्रह्मणां शतम्
नारायण उवाच मेघगम्भीरया वाचा तमुवाच जगत्पतिः
विष्णुरुवाच अस्य रामस्य रक्षार्थं कृष्णभक्तस्य साम्प्रतम्
नैतेषां कृष्णभक्तानामशुभं विद्यते क्वचित्
नाहं पाता गुरौ रुष्टे बलवद्गुरुहेलनम्
मान्यः पूज्यश्च सर्वेभ्यः सर्वेषां जनको भवेत्
जनको जन्मदानाच्च पालनाच्च पिता नृणाम् 3.44.
पितुः शतगुणं माता पोषणाद्गर्भधारणात्
मातुः शतगुणं वन्द्यः पूज्यो मान्योऽन्नदायकः
अन्नदातुः शतगुणोऽभीष्टदेवः परः स्मृतः
अज्ञानतिमिराच्छन्नं ज्ञानदीपेन चक्षुषा
गुरुदत्तेन मन्त्रेण तपसेष्टसुखं लभेत्
सर्वं जयति सर्वत्र विद्यया गुरुदत्तया
विद्यान्धो वा धनान्धो वा यो मूढो न भजेद्गुरुम्
दरिद्रं पतितं क्षुद्रं नरबुद्ध्याऽऽचरेद्गुरुम्
पितरं मातरं भार्य्यां गुरुपत्नीं गुरुं परम्
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः 3.44.
गुरुश्चन्द्रस्तथेन्द्रश्च वायुश्च वरुणोऽनलः
नास्ति वेदात्परं शास्त्रं नहि कृष्णात्परः सुरः
नास्ति क्षमावती भूमेः पुत्रान्नास्त्यपरः प्रियः
शालग्रामात्परो यन्त्रो न क्षेत्रं भारतात्परम्