गुरवे दक्षिणादानमुचितं च श्रुतौ श्रुतम्
गणेश्वरं रणे जित्वा स्थितश्चेदावयोः पुरः
पर्शुनाऽमोघवीर्य्येण शङ्करस्य वरेण च
त्वद्विधं लक्षकोटिं च हन्तुं शक्तो गणेश्वरः
तेजसा कृष्णतुल्योऽयं कृष्णांशश्च गणेश्वरः
व्रतप्रभावतः प्राप्तः शङ्करस्य वरेण च
इत्युक्त्वा पार्वती रोषात्तं रामं हन्तुमुद्यता
एतस्मिन्नन्तरे दुर्गा ददर्श पुरतो द्विजम् 3.44.
शुक्लदन्तं शुक्लवासं शुक्लयज्ञोपवीतिनम्
दधतं तुलसीमालां सस्मितं सुमनोहरम्
रत्ननूपुरपादं च सद्रत्नमुकुटोज्ज्वलम्
स्थिरमुद्रां दर्शयन्तं भक्तवामकरेण च
बालिकाबालकगणैर्नागरैः सस्मितैर्युतम्
तं दृष्ट्वा सम्भ्रमाच्छम्भुः सभृत्यः सहपुत्रकः
आशिषं प्रददौ बालः सर्वेभ्यो वाञ्छितप्रदाम्
दत्त्वा तस्मै शिवो भक्त्या तूपचारांस्तु षोडश
रत्नसिंहासनस्थं च प्रावोचच्छङ्करः स्वयम् 3.44.
शंकर उवाच ते शश्वत्कुशलाधाराः कुशलाः कुशलप्रदाः
अयने सफलं जन्म जीवितं च सुजीवितम्
परिपूर्णतमः कृष्णो लोकनिस्तारहेतवे
अतिथिः पूजितो येन पूजिताः सर्वदेवताः
स्नानेन सर्वतीर्थेषु सर्वदानेन यत्फलम् ४५' तदेवातिथिसेवायाः कलां नार्हन्ति षोडशीम्
अतिथिर्यस्य भग्नाशो याति रुष्टश्च मन्दिरात्
स्त्रीगोघ्नश्च कृतघ्नश्च ब्रह्मघ्नो गुरुतल्पगः
सन्ध्याहीनः स्वघाती च सत्यघ्नो हरिनिन्दकः
मित्रद्रोही कृतघ्नश्च वृषवाहश्च सूपकृत् 3.44.
शूद्रश्राद्धान्नभोजी च शूद्रश्राद्धेषु भोजकः
लाक्षामांसतिलानां च लवणस्य तिलस्य च
एकादशीकृष्णसेवाहीनो विप्रश्च भारते
कालसूत्रे च नरके पतन्ति ब्रह्मणां शतम्