विचारं कर्तुमुचितं त्वं च धर्मविदां वरः
साक्ष्ये मिथ्यां को वदेद्वा द्वावेषां भ्रातरौ समौ
साक्षी सभायां यत्साक्ष्यं जानन्नप्यन्यथा वदेत्
स याति कुम्भीपाकं च निपात्य शतपूरुषम्
अहं विबोधितुं शक्ता यन्निर्णेत्री द्वयोरपि
किंकराणां प्रभा तत्र नृपे वसति संसदि
सुचिरं तपसा प्राप्तं त्वदीयं चरणाम्बुजम्
यत्किंचित्कोपशोकाभ्यामुक्तं मोहेन तत्परम् 3.44.
त्वया यदि परित्यक्ता तदा पुत्रेण तेन किम्
असद्वंशप्रसूता या दुश्शीला ज्ञानवर्जिता
कुत्सितं पतितं मूढं दरिद्रं रोगिणं जडम्
हुताशनो वा सूर्य्यो वा सर्वतेजस्विनां वरः
महादानानि पुण्यानि व्रतान्यनशनानि च
पुत्रोवाऽपि पिता वाऽपि बान्धवोऽथ सहोदरः
इत्युक्त्वा स्वामिनं दुर्गा ददर्श पुरतो भृगुम्
पार्वत्युवाच पुत्रोऽसि जमदग्नेश्च शिष्यो वै योगिनां गुरोः
माता ते रेणुका साध्वी पद्मांशा सत्कुलोद्भवा
त्वं च रेणुकभूपस्य मनुवंशोद्भवस्य च 3.44.
कस्य दोषेण दुर्द्धर्षस्त्वं न जानेऽप्यशुद्धधीः
अमोघं प्राप्य पर्शुं च गुरुं च करुणानिधिम्
गुरवे दक्षिणादानमुचितं च श्रुतौ श्रुतम्
गणेश्वरं रणे जित्वा स्थितश्चेदावयोः पुरः
पर्शुनाऽमोघवीर्य्येण शङ्करस्य वरेण च
त्वद्विधं लक्षकोटिं च हन्तुं शक्तो गणेश्वरः
तेजसा कृष्णतुल्योऽयं कृष्णांशश्च गणेश्वरः
व्रतप्रभावतः प्राप्तः शङ्करस्य वरेण च
इत्युक्त्वा पार्वती रोषात्तं रामं हन्तुमुद्यता
एतस्मिन्नन्तरे दुर्गा ददर्श पुरतो द्विजम् 3.44.
शुक्लदन्तं शुक्लवासं शुक्लयज्ञोपवीतिनम्
दधतं तुलसीमालां सस्मितं सुमनोहरम्