शतधा वेष्टयित्वा तु भ्रामयित्वा तु तत्र वै
सप्तद्वीपांश्च शैलांश्च मेरुं चाखिलसागरान्
हस्तपादाद्यनाथं तं जडं सर्वांगकम्पितम्
भूर्लोकं च भुवर्लोकं स्वर्लोकं च सुरेश्वरः
गौरीलोकं शम्भुलोकं दर्शयामास नारद 3.43.
पुनरुद्गिरणं चक्रे सनक्रमकरोदकम्
मुमूर्षुं तं सन्तरन्तं पुनर्जग्राह लीलया
वैकुण्ठं दर्शयामास सलक्ष्मीकं चतुर्भुजम्
पुनः करं च योगेन वर्द्धयामास लीलया
वृन्दावनं शृङ्गशतं शैलेन्द्रं रासमण्डलम्
द्विभुजं मुरलीहस्तं सस्मितं सुमनोहरम्
तेजसा कोटिसूर्य्याभं राधावक्षःस्थलस्थितम्
क्षणेन लम्बमानं च भ्रामयित्वा पुनः पुनः भ्रूणहत्यादिकं पापं भृगोर्दूरं चकार ह
न भवेद्यातना नष्टा विना भोगेन पापजा
क्षणेन चेतनां प्राप्य भुवि वेगात्पपात ह 3.43.
सस्मार कवचं स्तोत्रं गुरुदत्तं सुदुर्लभम्
चिक्षेप पर्शुमव्यर्थं शिवतुल्यं च तेजसा
पितुरव्यर्थमस्त्रं च दृष्ट्वा गणपतिः स्वयम्
निपात्य पर्शुर्वेगेन च्छित्त्वा दन्तं समूलकम्
हाहेति शब्दमाकाशे देवाश्चक्रुर्महाभिया
पपात भूमौ दन्तश्च सरक्तः शब्दयंस्तदा
शब्देन महता विप्र चकम्पे पृथिवी भिया
निद्रा बभञ्ज तत्काले निद्रेशस्य जगत्प्रभोः
पुरो ददर्श हेरम्बं लोहितास्यं क्षतेन तम्
पप्रच्छ पार्वती शीघ्रं स्कन्दं किमिति पुत्रक 3.43.
चुकोप दुर्गा कृपया रुरोद च मुहुर्मुहुः
सम्बोध्य शम्भुं शोकेन भिया विनयपूर्वकम्
इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे गणेशदन्तभङ्गकारणवर्णनं नाम त्रिचत्वारिंशत्तमोऽध्यायः
पार्वत्युवाच अपेक्षा रहिता दासी तस्या वै जीवनं वृथा
ईश्वरस्य समाः सर्वास्तृणपर्वतजातयः