स्वयं कृष्णश्च गोलोके द्विभुजः श्यामसुन्दरः
शश्वद्गोगोपगोपीभिः संयुक्तो गोपरूपधृक्
स्वेच्छामयः स्वतन्त्रस्तु परमानन्दरूपधृक्
यतो भवन्ति विश्वानि स्थूलसूक्ष्मादिकानि च
गोलोक ऊर्ध्ववैकुण्ठात्पञ्चाशत्कोटियोजनः
इदं श्रुतं शम्भुवक्त्रान्मया ते कथितं द्विज
नारायण उवाच पर्शुहस्तस्स वै रामो निर्भयो गन्तुमुद्यतः
गणेश्वरस्तदा दृष्ट्वा शीघ्रमुत्थाय यत्नतः
रामस्तं प्रेरयामास हुं कृत्वा तु पुनः पुनः
पर्शुनिक्षेपणं कर्तुं मनश्चक्रे भृगुस्तदा
अव्यर्थमस्त्रं हे भ्रातर्गुरुपुत्रे कथं क्षिपेः
पर्शुं क्षिपन्तं कुपितं रक्तपद्मदलेक्षणम्
पुनर्गणेशं रामश्च प्रेरयामास कोपतः
गजाननः समुत्थाय धर्मं कृत्वा तु सक्षिणम्
मम भ्राता त्वमतिथिर्विद्यासम्बन्धतो ध्रुवम् 3.43.
न ह्यहं कार्त्तवीर्य्यश्च भूपास्ते क्षुद्रजन्तवः
क्षणं तिष्ठ निवर्त्तस्व समरे ब्राह्मणातिथे
नारायण उवाच पर्शुं क्षेप्तुं मनश्चक्रे प्रणम्य हरिशङ्करौ
पर्शुं क्षिपन्तं कोपेन तं च रामं गजाननः
योगेन वर्द्धयामास शुण्डां तां कोटियोजनाम्
शतधा वेष्टयित्वा तु भ्रामयित्वा तु तत्र वै
सप्तद्वीपांश्च शैलांश्च मेरुं चाखिलसागरान्
हस्तपादाद्यनाथं तं जडं सर्वांगकम्पितम्
भूर्लोकं च भुवर्लोकं स्वर्लोकं च सुरेश्वरः
गौरीलोकं शम्भुलोकं दर्शयामास नारद 3.43.
पुनरुद्गिरणं चक्रे सनक्रमकरोदकम्
मुमूर्षुं तं सन्तरन्तं पुनर्जग्राह लीलया
वैकुण्ठं दर्शयामास सलक्ष्मीकं चतुर्भुजम्
पुनः करं च योगेन वर्द्धयामास लीलया
वृन्दावनं शृङ्गशतं शैलेन्द्रं रासमण्डलम्