गणपतिरुवाच पितुर्भ्रातुर्मुखाज्ज्ञानं दुर्लभं भाग्यवाँल्लभेत्
श्रुतं ज्ञानं विशिष्टं च ज्ञानिनामपि दुर्लभम्
यो निर्गुणः स निर्लिप्तः शक्तिभिर्न हि संयुतः
यावन्ति च शरीराणि भोगार्हाणि महामुने
ध्यायन्ति योगिनस्तं च शुद्धज्योतिस्स्वरूपिणम्
वैष्णवास्ते नमस्यन्ति भक्तानुग्रहकारकम्
ज्योतिरभ्यन्तरे नित्यं शरीरं श्यामसुन्दरम् 3.42.
अतीवामूल्यसद्रत्नभूषणैश्च विभूषितम्
तदा दास्ये नियुक्तास्ते भवन्त्येवेश्वरेच्छया
यदा सृष्ट्युन्मुखः कृष्णः ससृजे प्रकृतिं मुदा । तद्योनौ ह्यर्पितं वीर्यं वीर्य्याड्डिम्भो बभूव ह
दिव्येन लक्षवर्षेण गर्भाड्डिम्भो विनिर्गतः
निश्श्वासेन समं भ्रातर्मुखबिन्दुर्विनिर्गतः
तज्जले च स्थितो डिम्भो दिव्यवर्षाणि लक्षकम्
यावन्ति गात्रलोमानि तस्य सन्ति महात्मनः
तत्रैव प्रतिविध्यण्डे ब्रह्मविष्णुमहेश्वराः
महाविराडाश्रयश्च सर्वस्य च जनस्य च
महाविष्णुश्च कलया ततः क्षुद्रविराडभूत् 3.42.
विष्णुस्तदंशः पाता यः श्वेतद्वीपनिवासकृत्
स्वयं च स्वांशकलया नानामूर्त्तिधरो हरिः
कथं लज्जादिरहितः स च स्वच्छामयो महान्
लज्जा नास्त्येव लज्जाया मतोऽयं सर्वसम्मतः
सर्वशक्तिमती दुर्गा प्रकृत्या सा च शैलजा
पञ्चधा प्रकृतिर्या च श्रीकृष्णस्य बभूव ह
प्राणाधिष्ठातृदेवी या कृष्णस्य परमात्मनः
विद्याधिष्ठातृदेवी या सावित्री ब्रह्मणः प्रिया
सरस्वती द्विधा भूत्वा कृष्णस्य मुख निर्गता
बुद्ध्यधिष्ठातृदेवी या ज्ञानसूः शक्तिसंयुता 3.42.
प्रकृतिः पञ्चधा भ्रातर्गोलोके च बभूव ह
विप्रेन्द्र नित्यं वैकुण्ठं ब्रह्माण्डात्परमुच्यते
तत्र नारायणो देवः कृष्णार्द्धांशश्चतुर्भुजः