सगुणं निर्गुणं चैव भक्तानुग्रहविग्रहम्
स्वेच्छामयं दयासिन्धुं दीनबन्धुं मुनीश्वरम्
परापराणां स्रष्टारं पुरुहूतं पुरस्कृतम्
सर्वमङ्गलमाङ्गल्यं सर्वमंगलकारणम्
आशुतोषं प्रसन्नास्यं शरणागतवत्सलम्
इत्थं परशुरामोऽस्थादुक्त्वा गणपतेः पुरः
क्षणं तिष्ठ क्षणं तिष्ठ शृणु भ्रातरिदं वचः 3.42.
स्त्रीसंयुक्तं च पुरुषं यः पश्यति नराधमः
विशेषतश्च पितरं गुरुं भूतपतिं द्विज
रहः सुरतसंसक्तं नहि पश्येद्विचक्षणः
स्त्रीविच्छेदो भवेत्तस्य ध्रुवं सप्तसु जन्मसु कामतोऽपि विमूढश्च सोऽन्धो भवति निश्चितम्
गणेशस्य वचः श्रुत्वा प्रहस्य भृगुनन्दनः
परशुराम उवाच इदमेवमहो नैवं श्रुतमीश्वरवक्त्रतः
श्रुतं श्रुतौ वाक्यमिदं कामिनां च विकारिणाम् यास्याम्यन्तःपुरं भ्रातस्तव किं तिष्ठ बालक
यथादृष्टि करिष्यामि मत्कार्य्यं समयोचितम्
जगतां पितरौ तौ च पार्वतीपरमेश्वरौ
सर्वरूपः शङ्करश्च सर्वारूपा च पार्वती 3.42.
क्रीडा लज्जा भीतिभंगो ग्राम्यस्यैव न चेशितुः
लज्जायाश्च कुतो लज्जा लज्जेशस्य च सा कुतः
शीतं शैत्यमहो भ्रातर्निदाघो दाहमेव च
कुतो ज्वरो ज्वरं हन्ति व्याधिं व्याधिश्च जीर्यति
स्रष्टारं सृजते स्रष्टा पाता किं पाति ते मते
निद्रा निद्रां च शोभां श्रीः शान्तिः शांतिं च ते मते आत्मनः परमात्माऽस्ति शक्तिः शक्त्या बिभेति किम्
कामक्रोधौ लोभमोहौ स्वात्मनैते न बाधिताः
ज्ञानबुद्ध्योः को विकारो जरां नो बाधते जरा
हर्षो मुदं किं प्राप्नोति शोकं शोको न बाधते
मेधाया धारणा शक्तिः स्मृतेर्वा स्मरणं कुतः 3.42.
विपरीतमतो भ्रातस्त्वयैवाचरितोऽधुना
इत्युक्त्वा चापि परशुरामश्शश्वत्प्रहस्य सः
तच्च रामवचः श्रुत्वा जितक्रोधो गणेश्वरः