आकीर्णं पुष्पजालैश्च पुष्पितैश्च सुगन्धिभिः 3.41.
सिद्धविद्यासु निपुणैः पुण्यवद्भिर्निषेवितम्
शतयोजनविस्तीर्णैः शतस्कन्धसमन्वितैः
नानापक्षिगणाकीर्णैः सुमनोहरशब्दितैः
पुष्पोद्यानसहस्रेण सरसां च शतेन च
रामश्च दृष्ट्वा नगरमतिसंहृष्टमानसः
सुवर्णमूल्यशतकैर्मणिभिः स्वर्णवर्णकैः
त्रिपञ्चयोजनोच्छ्रायं चतुर्योजनविस्तृतम्
द्वारं रत्नकपाटेन नाना चित्रान्वितेन च
तद्दक्षिणे वृषेन्द्रं च वामे सिंहं च नारद
विशालाक्षं च बाणं च विरूपाक्षं महाबलम् 3.41.
संहारभैरवं कालभैरवं च भयङ्करम्
कृष्णाङ्गभैरवं चैव क्रोधभैरवमुल्बणम्
सिद्धेंद्रादीन्रुद्रगणान्विद्याधरसुगुह्यकान्
वेतालान्दानवांश्चैव योगीन्द्रांश्च जटाधरान्
तान्दृष्ट्वा नन्दिकेशाज्ञां गृहीत्वा भृगुनन्दनः
रत्नेन्द्रसारखचितं ददर्श शतमन्दिरम्
अमूल्यरत्नरचितैर्मुक्तानिर्म्मलदर्पणैः
गोरोचनाभिर्मणिभिर्युतं स्तम्भसहस्रकैः
ददर्शाभ्यन्तरं द्वारं नानाचित्रैश्च चित्रितम्
ददर्श कार्त्तिकेयं च वामे दक्षे गणेश्वरम् 3.41.
प्रधानपार्षदगणान्क्षेत्रपालांश्च नारद
तान्सम्भाष्य भृगुः शीघ्रं महाबलपराक्रमः
गच्छन्तं तं गणेशश्च क्षणं तिष्ठेत्युवाच ह
ईश्वराज्ञां गृहीत्वाऽहमत्रागत्य क्षणान्तरे
गणेशवाक्यं परशुरामश्श्रुत्वा महाबलः
इति श्रीब्रह्मवैवर्त्ते महापुराणे तृतीये गणपतिखण्डे नारदनारायणसंवादे कैलासवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः
परशुराम उवाच प्रणम्य मातरं भक्त्या यास्यामि त्वरितं गृहम्
त्रिस्सप्तकृत्वो निर्भूपां कृत्वा पृथ्वीं च लीलया
नानाविद्या यतो लब्धा नानाशस्त्रं सुदुर्लभम्