प्रकृतिर्लक्षवर्षं च तपस्तप्त्वा यमीश्वरम्
इत्युक्त्वा मुनिभिः सार्द्धं जगाम कमलोद्भवः
नारायण उवाच रामो जगाम कैलासं नमस्कर्तुं शिवं गुरुम् गुरुपत्नीं शिवामम्बां द्रष्टुं गुरुसुतौ च तौ
मनोयायी महात्मा स भृगुस्संप्राप्य तत्क्षणम्
शुद्धस्फटिकसङ्काशैर्मणिभिः सुमनोहरैः
सिन्दूरारुणवर्णैश्च वेष्टितं मणिवेदिभिः
यक्षाणामालयैर्दिव्यैः संयुक्तं शतकोटिभिः
सुवर्णकलशैर्दिव्यै राजतैः श्वेतचामरैः
रत्नभूषणभूषाढ्यैर्दीपितैः सुन्दरीगणैः
क्रीडद्भिः सस्मितैः शश्वत्स्वच्छन्दं च विराजितैः
आकीर्णं पुष्पजालैश्च पुष्पितैश्च सुगन्धिभिः 3.41.
सिद्धविद्यासु निपुणैः पुण्यवद्भिर्निषेवितम्
शतयोजनविस्तीर्णैः शतस्कन्धसमन्वितैः
नानापक्षिगणाकीर्णैः सुमनोहरशब्दितैः
पुष्पोद्यानसहस्रेण सरसां च शतेन च
रामश्च दृष्ट्वा नगरमतिसंहृष्टमानसः
सुवर्णमूल्यशतकैर्मणिभिः स्वर्णवर्णकैः
त्रिपञ्चयोजनोच्छ्रायं चतुर्योजनविस्तृतम्
द्वारं रत्नकपाटेन नाना चित्रान्वितेन च
तद्दक्षिणे वृषेन्द्रं च वामे सिंहं च नारद
विशालाक्षं च बाणं च विरूपाक्षं महाबलम् 3.41.
संहारभैरवं कालभैरवं च भयङ्करम्
कृष्णाङ्गभैरवं चैव क्रोधभैरवमुल्बणम्
सिद्धेंद्रादीन्रुद्रगणान्विद्याधरसुगुह्यकान्
वेतालान्दानवांश्चैव योगीन्द्रांश्च जटाधरान्
तान्दृष्ट्वा नन्दिकेशाज्ञां गृहीत्वा भृगुनन्दनः
रत्नेन्द्रसारखचितं ददर्श शतमन्दिरम्
अमूल्यरत्नरचितैर्मुक्तानिर्म्मलदर्पणैः
गोरोचनाभिर्मणिभिर्युतं स्तम्भसहस्रकैः
ददर्शाभ्यन्तरं द्वारं नानाचित्रैश्च चित्रितम्