अष्ठी वपति संसारे गृहस्थो विष्णुमायया
पुण्यवान्पुण्यभूमौ च करोति सुचिरं तपः 1.14.
ब्राह्मणानां मुखे क्षेत्रे श्रेष्ठेऽनूषर एव च
न बलं न च सौन्दर्यं नैश्वर्यं न धनं सुतः
सेवते प्रकृतिं यो हि भक्त्या जन्मनि जन्मनि
श्रियं च निश्चलां पुत्रं पौत्रं भूमिं धनं प्रजाम्
शिवं शिवस्वरूपं च शिवदं शिवकारणम्
तमीशं सेवते यो हि भक्त्या जन्मनि जन्मनि
विद्यां ज्ञानं सुकवितां पुत्रं पौत्रं परां श्रियम्
ब्रह्माणं भजते यो हि लभेत्सोऽपि प्रजां श्रियम्
यो नरो भजते भक्त्या दीननाथं दिनेश्वरम्
गणेश्वरं यो भजते देवदेवं सनातनम् 1.14.
विघ्ननाशो भवेत्तस्य स्वप्ने जागरणेऽनिशम्
ज्ञानं विद्यां सुकवितां लभते तद्वरेण च
वरार्थी चेल्लभेत्सर्वं निर्वाणमन्यथा ध्रुवम्
सर्वं तपः सर्वधर्मं यशः कीर्तिमनुत्तमाम्
विडम्बितो विधात्राऽसौ मोहितो विष्णुमायया
सा कृपां कुरुते यं च विष्णुमन्त्रं ददाति तम्
इह लोके सुखं भुक्त्वा याति विष्णोः परं पदम्
काले पश्चात्तेन सार्द्धं परं विष्णोः पदं लभेत्
ब्रह्मविष्णुशिवादीनां सेव्यं बीजं परात्परम्
साकारं च निराकारं ज्योतिः स्वेच्छामयं विभुम् 1.14.
निर्लिप्तसाक्षिरूपं च भक्तानुग्रहविग्रहम्
स सर्वं मन्यते तुच्छं सालोक्यादिचतुष्टयम्
ऐश्वर्यं लोष्टतुल्यं च नश्वरं चैव मन्यते
जल बुद्बुदवद् बुद्ध्या चातितुच्छं न गण्यते
दास्यं विना न याचेत श्रीकृष्णस्य पदं परम्
परिपूर्णतमं ब्रह्म निषेव्यं सुस्थिरः सदा
श्वशुरस्य शतं पूर्वमुद्धृत्य चावलीलया
उद्धरेत्कृष्णभक्तश्च गोलोकं याति निश्चितम्