रामस्ततो राजसैन्यं ब्रह्मास्त्रेण जघान ह
एवं त्रिस्सप्तकृत्वश्च क्रमेण च वसुन्धराम्
गर्भस्थं मातुरङ्कस्थं शिशुं वृद्धं च मध्यमम्
कार्त्तवीर्य्यश्च गोलोकं त्वगमत्कृष्णसन्निधिम्
त्रिस्सप्तकृत्वो निर्भूपां महीं दृष्ट्वा महेश्वरः
देवाश्च मुनयो देव्यः सिद्धगन्धर्वकिन्नराः
स्वर्गे दुन्दुभयो नेदुर्हर्षशब्दो बभूव ह
ब्रह्मा भृगुश्च शुक्रश्च वाल्मीकिश्च्यवनस्तथा
पुलकाञ्चितसर्वाङ्गाः सानन्दाश्च समन्विताः ।। 3.40.
प्रणनाम च तान्रामो दण्डवत्पतितो भुवि
तमुवाचाथ परशुरामं ब्रह्मा जगद्गुरुः
ब्रह्मोवाच काण्वशाखोक्तवचनं सत्यं वै सर्वसम्मतम्
पूज्यानामेव सर्वेषामिष्टः पूज्यतमः परः
गरीयाञ्जन्मदातुश्च सोऽन्नदाता पिता मुने
तयोः शतगुणं माता पूज्या मान्या च वन्दिता
तेभ्यः शतगुणं पूज्योऽभीष्टदेवः श्रुतौ श्रुतः
गुरुवद्गुरुपुत्रश्च गुरुपत्नी ततोऽधिका
गुरुर्ज्ञानं ददात्येव ज्ञानं च हरिभक्तिदम् 3.40.
अज्ञानतिमिराच्छन्नो ज्ञानदीपं यतो लभेत्
गुरुदत्तं सुमन्त्रं च जप्त्वा ज्ञानं ततो लभेत्
सुखं जयति सर्वत्र विद्यया गुरुदत्तया
विद्यान्धो वा धनान्धो वा यो मूढो न यजेद्गुरुम्
दरिद्रं पतितं क्षुद्रं नरबुद्या भजेद्गुरुम्
अभीष्टदेवः श्रीकृष्णो गुरुस्ते शङ्करः स्वयम्
त्रिस्सप्तकृत्वो निर्भूपा त्वया पृथ्वी कृता यतः
शिवां च शिवरूपं च शिवदं शिवकारणम्
गोलोकनाथो भगवानंशेन शिवरूपधृक्
आत्मा कृष्णः शिवो ज्ञानं मनोऽहं सर्वजीविषु 3.40.
ज्ञानदं ज्ञानरूपं च ज्ञानबीजं सनातनम्
ब्रह्मज्योतिस्स्वरूपं तं भक्तानुग्रहविग्रहम्